________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४०
चरक संहिता ।
सव्वं त्रिदोषजं कुष्ठं दोषाणाञ्च बलाबलम् । यथास्वलक्षणैर्वद्धा कुष्ठानां क्रियते क्रिया ॥ दोषस्य यस्य पश्येत् कुष्ठेषु विशेष लिङ्गमुद्रिक्तम् । तस्यैव शमं कुर्य्यात् ततः परञ्चानुबन्ध्यस्य ॥ १६ ॥ कुछ विशेषैर्दोषा दोषविशेषैः पुनः कुष्ठानि ।
ज्ञायन्ते ते हेतुं # हेतुस्तांश्च प्रकाशयति ॥ २० ॥
{ कुष्टचिकित्सितम्
गङ्गाधरः- निदानं लिङ्गमाश्रयञ्च कुष्ठानामुक्त्वा प्रशमनं विवक्षादौ परीक्ष्यमाह - सर्व्वं त्रिदोषजमित्यादि । सर्व्वं कुष्ठं त्रिदोषजम् । तत्र दोषाणां बलाबलं यथास्वैः स्वमनतिक्रम्यार्थात् स्वैः स्वैर्लक्षणैः बुद्धा कुष्ठानां क्रिया चिकित्सा क्रियते । ननु दोषाणां बलावलं बुद्धा कीदृशी क्रिया काय्र्येत्यत आह - दोषस्येत्यादि । कुष्ठेषु यस्य दोषस्य उद्रिक्तं प्रबलं यलिङ्गविशेषं पश्येत्, तस्यैव दोषस्य बलवत्त्वादादौ शमं कुर्य्यात् ततः परमनुबन्ध्यस्याप्रधानस्य दोषस्य शमं कुर्य्यादिति ॥ १९ ॥
गङ्गाधरः- ननु कैः के शातव्या इत्यत आह-कुष्ठेत्यादि । कुष्ठविशेषः अत्रैवोपदिष्टवतेन कापालमित्यादिदोषविशेषोपदेशपूर्वक कापालादिभिर्दोषा वातादयो ज्ञायन्ते । पुनर्दोषविशेषेण वातादिना कृष्णारुणादिकर्म्मकृता कुष्ठानि ज्ञायन्ते । ते दोषविशेषा हेतु प्रकाशयन्ति यादृशरुक्षशीतादिहेतु सेवनेदुष्टा हि दोषविशेषा भवन्ति तादृशरुक्षादिलिङ्गानि कुव्र्व्वन्तीति । एवं हेतु रुक्षादिधर्मा कट्टादिस्तान दोषविशेषान् प्रकाशयति । यो हि
For Private and Personal Use Only
चक्रपाणिः - उक्तैकदोषजत्वादिना कुष्ठेष्वविरोधं दर्शयन्नाह - सव्र्व्वमित्यादि । त्रिदोषजत्वं सर्व्वकुष्ठेषु व्यवस्थितमेव । दोषबलाबलविवक्षया चिकित्साथै वा एकदोषजत्वादिव्यपदेश इति भावः । अनुबन्ध्यस्येति अप्रधानस्य ॥ १७-१९॥
चक्रपाणिः- सम्प्रति दुर्जातस्य कुष्टविशेषस्य तथा कुष्ठजनकस्य च हेतोः परस्परविरोधकत्वमाह- कुष्टविशेषैरित्यादि । कुष्ठविशेषैः कुष्ठं ज्ञात्वा, कुष्ठानि ज्ञायन्ते यैर्विशेषस्ते कुष्ठविशेषार है: वाताधिकोऽयं पैत्तिकोऽयमिति कुष्ठदोषे प्रतिज्ञाते दोषविशेषज्ञानात् विशिष्टानि कुष्ठानि ज्ञायन्ते, यथा इदं वातोत्तरं कुष्ठं तस्मात् कापालमिदम्, पित्ताधिकत्वान्मण्डलमिदमित्यादि । तथा यः कुष्ठेष्वपरिज्ञातो हेतुः स दोषैर्ज्ञायते । यथा कुष्ठं वातोत्तरं दृष्ट्वा वातोत्तरकुष्ठजनकानि विरुद्धाशनादीनि कारणानि ज्ञायन्ते हेतुभिश्च दोषविशेषकुष्ठानि ज्ञायन्ते । यस्मादनेन
* तैर्हेतुरिति चक्रष्टतः पाठः ।