SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३८ चरक संहिता | [ कुष्ठचिकित्सितम् रक्तं श्यावं सदाहार्त्ति शतारुः स्याद बहुत्रणम् । सकराडू पिकाश्यावा बहुखावा विचर्चिका ॥ १४ ॥ इत्येकादश क्षुद्रकुष्ठानि । वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे । पित्ते त्वौडुम्बरं विद्यात् काकरणन्तु त्रिदोषजम् ॥ १५ ॥ वातपित्ते श्लेष्मपित्ते वातश्लेप्मणि चाधिके । ऋष्यजिह्न' पुण्डरीकं सिध्मकुष्ठञ्च जायते ॥ १६ ॥ पित्तकफाधिकेति न विरोधः । स्फोटा इत्यादि । तनुखश्यावारुणस्फोटो विस्फोटः । कुष्ठमिदमपि पित्तश्लेष्माधिकम् । सुश्रुते नायमुक्त एषोऽपि पित्तकफाधिक्ये वक्ष्यते । रक्तं श्यावमित्यादि । सदाहात्ति रक्तश्याववर्ण बहुवर्ण शतारुः, कुष्ठमिदञ्च पित्तकफाधिकं वक्ष्यते । सुश्रुते नेत्रं पठितम् । महाकुष्ठविसर्प परिसर्पवसेति चत्वारि चान्यानि पठित्वैकादश क्षुद्रकुष्ठानि व्याख्यातानि । तद् यथा । त्वकोच भेदस्वपनाङ्गसादाः कुष्ठे महत्पूर्व्वयुते भवन्ति । विसवत् सर्पति सर्व्वतो यस्त्वग्रक्तमांसान्यभिभूय शीघ्रम् । मूर्च्छाबिदाहारतितोदपाकान् कृत्वा विसर्पः स भवेद् विकारः । शनैः शरीरे पिड़काः स्रवन्त्यः सर्पन्ति यास्तं परिसर्पमाहुः । कण्डून्विता या पिड़का शरीरे संस्रावहीना चकसोच्यते सेति । तान्यनुक्तान्यपि न विरुध्यन्ते । निदानस्थाने हुक्तं सप्तविधमष्टादशविधमपरिसङ्घा यविधञ्चेति । सकण्डित्यादि । विचचिचका कफमाया । विचर्चिकेति वक्ष्यते । सुश्रुते शेषाणि पित्तम वाणीत्युक्तया पित्तजा विचर्चिका शेया । राज्योऽतिकण्टुर्त्तिरुजः सुरुक्षा भवन्ति गात्रेषु विचर्चिकायाम् । कण्डूमती दाहरुजोपपन्ना विपादिका पादगतेयमेवेति । अल्पस्वावातिका दुर्त्तिरुजान्वितराजिमती विचर्चिका पित्तेन सस्रावा सक या पिकारूपा तु विचर्चिका श्लेष्मप्रायेति न विरोधः ॥ १४ ॥ 1 ? I गङ्गाधरः- अष्टादश कुष्ठलक्षणान्युक्त्वा आश्रयदोषमाह - वातेऽधिकतरे इत्यादि । स्पष्टार्थम् ॥ १५ ॥ गङ्गाधरः - वातपित्ते इत्यादि । यथाक्रमं बातपित्तेऽधिकतरे ऋष्यजिह्वम्, इदमपित्तं पुण्डरीकम्, वातश्लेष्मणि सिध्मकुष्ठम् ॥ १६ ॥ चक्रपाणिः - चिकित्सार्थं वाताद्याधिक्यं कुष्ठष्वाह वात इत्यादि । ऋष्यजिह्वादिषु वातपित्ताधिक्यादि यथासंख्यं ज्ञेयम् ॥ १५ ॥ १६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy