SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उम अध्यायः ] चिकित्सितस्थानम् । कण्डूमद्भिः सरागैश्च गण्डैरलसकं विदुः । सकण्डुरागपिड़कं दद्रु र्मण्डलमुद्गतम् ॥ रक्तं सशूलं कण्डूमत् सस्फोटं यद् दत्यपि । तच्चर्म्मदलमाख्यातं संस्पर्शासहमुच्यते ॥ पामा श्वेता श्यावाः कण्डूराः पिड़का भृशम् । स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः ॥ For Private and Personal Use Only २६३७ च पठितानि यान्यत्र नोक्तानि परिसप - विसर्प - वकसेति । कण्डूमद्भिरित्यादि । गण्डै शोथवदल्पाल्पव्रणशोथैरलसकं नाम क्षुद्रकुण्डम् । इदञ्च प्रायो वातकफाधिकं वक्ष्यते । सुश्रुते तु स्थूलारुष्कं नाम पठितं तुल्यलक्षणखात् । तद यथा । स्थूलानि सन्धिष्वतिदारुणानि स्थूलारुपि स्युः कठिनान्यरुपीति । तत्रैतत् कफजमुक्तम् । तत्रायमभिसन्धिः । यत् कण्डूमत् सरागस्वल्पगण्डरूपं तदलसं वातकफाधिकं, यत् तु सन्धिस्थाने दारुणस्थूल गण्डरूपं तत् कफाधिकं स्थूलारुकं नाम सुश्रुतेनोक्तमिति न विरोधः । सकण्डूरागेत्यादि दद्रलक्षणम् । ननु सुश्र ते महाकुष्ठं दद्रकुष्ठमुक्तपत्र तु क्षुद्रकुण्ठेषु पाठः कथं संगच्छते ? उच्यते, मुश्रुते श्लेष्मणा अतसीपुष्पवर्णानि ताम्राणि वा विसपणि पिड़कावन्ति च दद्रुकुष्ठानि तेषाम् उत्सन्नता परिमण्डलना कण्डूचिरोत्थानञ्चेति लिङ्गानीत्येवं यवदद्वकुष्ठमुक्तं तदेव महाकष्टदत्वान्महाकुष्ठमुक्तम् । अत्रोक्तन्तु नातिकष्टत्वात् क्षूद्रकुष्ठमुक्तमिति न विरोधः कुष्ठानामपरिसङ्घा यविधत्वात् । रक्तमित्यादि । दलति विदीर्य्यते । चदलमिदं कुष्ठं पित्तश्लेष्माधिकम् । सुश्रुते शेषाणि पित्तप्रभवाणीत्युक्तेः पित्तजमुक्तं “स्युयेन कण्डूव्यथनौपचोपास्तलेषु तच्चदलं वदन्ति” इति । करतले कण्डादिमद् यच्चम्मविदारणं तत् पित्ताधिकं यत् तु संस्पर्शासह शूलस स्फोटकण्डूमच्चर्म्मविदलनं तत् पित्तश्लेष्माधिकमिति न विरोधः । पामेत्यादि । श्वेतारुणश्याववर्णा पिड़का कण्डूरा भृशमत्यर्थं सापामा । एतच्च कुष्टं पित्तश्लेष्माधिकं वक्ष्यते । सुश्रुते शेषाणि पित्तप्रभवाणीतुक्तया । सास्रावकण्डूप रिदाहवद्भिः पामाणुकाभिः पिडकाभिरुक्ता इति । अस्या एवावस्थान्तरं कच्छर्नामोक्ता । स्फोटः सदाहरति सैव कच्छ ः स्फिक्पाणिपादप्रभवैर्निरूप्येति । तत्र बहुखावा पामा पित्ताधिका, अल्पस्रावा ३३१
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy