SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छम अध्यायः चिकित्सितस्थानम् । २६३५ श्वेतं ताम्र तनु च यद् रजो घृष्टं विमुञ्चति । अलाबूपुष्पवर्णश्च तत् सिध्मं भूयसोरसि ॥ १२ ॥ यत् काकणन्तिकावर्णमपाकं तीनवेदनम् । त्रिदोषलिङ्ग तत् कुष्ठं काकणं नैव सिध्यति ॥ १३ ॥ इति सप्त महाकुष्ठानि। गङ्गाधरः-श्वेतं ताम्रमित्यादि। तनु चाघनं घृष्टं रजोरूपं चम्म मुञ्चति । कचिदलाबूपुष्पवत् श्वेतवर्णश्च भूयसा प्रायेणोरसि ऊर्द्ध देहे च भवति, तत् सिध्मं नाम महाकुष्ठम्। भूयसाग्रहणे कचिदधोदेहेऽपि भवति। ननु सुश्रुतेक्षद्रकुष्ठेषु सिध्म पठितं “काडन्वितं श्वेतमपाकि सिध्म विद्यात् तनु प्रायश ऊर्द्ध देहे” इति, कथमत्र महाकुष्ठेष्विति चेत् सत्यम् । निदानस्थानेऽधिकतरयोः श्लेप्ममारुतयोः सिध्मेत्युक्तं तत्र कफमारुताधिकतरं ताम्रवणवत् किञ्चिच्छत. मिश्रितताम्रवर्ण बहुतरं स्थाने स्थाने भवति, अल्पपूयादिमच्च तनु च घृष्टं रजो मुश्चत्येतदेकविधं, तत्र कफाधिक्ये अपरञ्चालाबपुष्पवत् श्वेतमपाकि कण्डयुतमदाहं तनु च रजो घृष्टं मुञ्चति तत् प्रायेण वक्षसि वोद्ध देहे वा भवति । द्विविधमेतत् त्वग्रक्तादिगतमवगाद महाकुष्ठमस्मिंस्तन्त्रे पठितं तत् कफोत्तरमिति मत्वा सुश्र ते क्षुद्रकुष्ठे पठितं त्वङ्मात्राश्रितत्वेनानवगाढत्वादिति ॥१२॥ गङ्गाधरः-यत् काकेत्यादि। काकणन्तिका गुजाफलं तद्वर्ण मध्येऽतीवकृष्णमन्ते चातीवरक्तं मध्ये रक्त मन्ते कृष्णं वा त्रिदोषलिङ्गमिति । सर्वकुष्ठानां त्रिदोषजत्वेऽप्येकद्वाल्वणव्यवच्छेदार्थ त्रिदोषलिङ्गमित्युक्तम्। इदश्च द्विविध त्रिदोषोल्वणमेकं यदिदं निदानस्थाने पठितं काकणस्तिकारणान्यादौ पश्चात् सव्वेकुष्ठसमन्वितानि पापीयसां सबकुष्ठलिङ्गसम्भवेनानेकवर्णानि काकणकानीति विद्यादित्युक्तम्। सुश्रुते तु पित्तेन काकणन्तिकाफलसदृशान्यतीवरक्तकृष्णानि काकणकानि, तेषामप्योषचोषपरिदाहधूमायनानि तिमोत्थानपाकभेदित्वानि क्रिमिजन्म चेति लिङ्गानि। तत्रादिबलप्रवृत्तं पौण्डरीकं काकणकश्चासाध्यमित्युक्तम् । तत्रादिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठाशेः भवतीति भावः। फाकणन्तिका गुना। कुष्टत्वेनैव त्रिदोषलिङ्गत्वे सिद्धे पुनस्तद्वचनं प्रबलत्रिदोषलिङ्गत्वोपदर्शनार्थम् ॥६-१३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy