________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुष्ठचिकित्सितम्
२६३४
चरक-संहिता। कर्कशं रक्तपर्यन्तमन्तःश्यावं सवेदनम् । यदृष्यजिह्वासंस्थानमृष्यजिह्व तदुच्यते ॥ १० ॥ सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् । सोत्सेधञ्च सरागञ्च पुण्डरीकं तदुच्यते ॥ ११ ॥
स्थाने श्लेष्मण्यधिकतरे प्रोक्तम् । सुश्रुते त्वेतत् कुष्ठं पौण्डरीकं नाम पठितं यथा श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकारण तेषामुत्सन्नता परिमण्डलता कण्डूचिरोत्थानवञ्चेति लिङ्गानीति ॥९॥ - गङ्गाधरः-कर्कशमित्यादि। गोजिह्वावत् खरस्पर्श रक्तपर्यन्तमन्ते रक्तवर्णमन्तःश्यावं मध्यभागे श्याववर्ण सवेदनम् ऋष्यजिह्वासंस्थानम् ऋष्यो नीलाण्डो हरिणस्तस्य जिह्वाकारं कुष्ठमृष्यजिह्वम् इदञ्च द्विविधं वातपित्तोत्तरं पित्तोत्तरश्च। तत्र वातपित्ताधिकतरमिदं निदानस्थाने व्याख्यातम् अस्मिंस्तन्त्रे। सुश्रुते तु-पित्तेन ऋष्यजिह्वाप्रकारखरखानि ऋष्यजिहान्योषचोपपरिदाहधूमायनानि क्षिप्रोत्थानप्रपाकमेदिखानि क्रिमिजन्म चेति लिङ्गा: नीति पठितम् ॥१०॥
गङ्गाधरः--सश्वेतमित्यादि। सश्वेतं रक्तपर्यन्तमन्ते श्वेतरक्तवर्ण मध्ये सरागञ्चेति ईषत् लोहितमिति। पुण्डरीकदलोपमं पद्मपुष्पदलाकारं सोत्सेधमुन्नतं सरागञ्चेति व्याख्यातम्। सदाहञ्चेति पाठान्तरे ईषदाह पित्तकफोत्थखात्। इदश्च पुण्डरीकं द्विविधं पित्तकफाधिकतरं कफाधिकतरञ्च तयोराद्यमस्मिंस्तन्त्रे निदानस्थाने चात्र च लिखितं, कफोत्तरन्तु सुश्रुते श्लेष्मणा पुण्डरीकपत्रप्रकाशानि पौण्डरीकाणि तेषामुत्सन्नता परिमण्डलता कण्डचिरोत्थानत्वञ्चेति । एतैर्लक्षणैस्तुल्यत्वान्मण्डलस्यैव नाम पौण्डरीकम् । अस्य तु पुण्डरीकस्य बहुबहलरक्तपूयलसीकादिलक्षणे दादस्य नाम न पोण्डरीकं सुश्रुते॥११॥
उत्सनमण्डलमित्युद्गतमण्डलम्। ऋप्यो नीलाण्डो हरिणः, ऋष्यजिह्वासंस्थानमिति तजिह्वाकारम् । प्रायश्वोरसीत्युरसि बाहुल्येन भवति श्लेष्मप्रधानत्वात्, कदाचिदन्यत्रापि
For Private and Personal Use Only