________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ]
चिकित्सितस्थानम् ।
२६३३
लसकद, चर्म्मदलयामाविस्फोटश तारु विचर्चिकानां लक्षणा
न्युपदेच्यामः ॥ ६ ॥
कृष्णारुणकपालाभं यद् रुक्षं परुषं तनु । कपालं तोदबहुलं तत् कुष्ठं विषमं स्मृतम् ॥ ७ ॥ रुग्दाहरागकण्डूभिः परीतं लोमपिञ्जरम् ।
उडुम्बरफलाभासं कुठमोडुम्बरं वदेत् ॥ ८ ॥ श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् । कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते ॥ ६ ॥ गङ्गाधरः - अत ऊद्ध मित्यादि - अष्टादशानां क्रमेण नामानि कपालेत्यादीनि ॥ ६ ॥
कृष्ण
गङ्गाधरः- तत्रादौ सप्तमहाकुष्ठलक्षणान्याह - कृष्णारुणेत्यादि । कपालवर्णमरुणकपालवर्ण वा कपालं भग्नखपैरखण्डं, रुक्षं निस्नेह, परुष खरस्पर्श, तनु अघनं, तोदबहुलं, कपालं नाम महाकुण्डम् । तत् विषमम् असमरूपं स्मृतम् । कुष्ठमिदं द्विविधं - वाताधिकतरं पित्ताधिकतरञ्च । तत्र वाताधिकतरमरुणाधिकस्वल्पकृष्णवर्ण कपालवणं, पित्ताधिकतरं स्वल्पारुणकृष्णवर्णकपालवर्णमित्युभयमेव कृष्णारुणकपालाभमित्यनेन अधिकतरवाताद् भवति तन्निदानस्थाने प्रोक्तम् । सुश्रुते च वातेनारुणाभानि तनूनि विसर्पणि तोदभेदस्वापयुक्तान्यरुणानि इत्यरुणं नाम पठित्वा पित्तेन कृष्णकपालवर्ण कपालं नाम पठितं यथा कृष्णकपालप्रकाशानि कपालकुष्ठानीति ॥ ७ ॥
गङ्गाधरः- रुग्दाहेत्यादि । लोमपिञ्जरं लोमभिः पिञ्जरं कपिलमभिरित्यर्थः । उदुम्बरफलाभासं स्पष्टम् । कुष्ठमिदमौडम्बरं नाम निदानस्थाने पित्तेऽधिकतरे भवतीति प्रोक्तम् । सुश्रुते च पित्तेन पकोडुम्बरफला कृतिवर्णान्यौडम्बराणीति ॥ ८ ॥
गङ्गाधरः- श्वेतं रक्तमित्यादि । श्वेतं रक्तं पुण्डरीकपुष्पपत्रवत् श्वेतं रक्तं स्थिरमच कठिनं स्त्यानं घनम् उत्सन्नमण्डलमुच्च मण्डलाकारं कृच्छ्र कृच्छ्रसाध्यम् अन्योन्यसंसक्तमेकमपरेण सम्मिलितमिति कुष्ठं मण्डलमुच्यते, निदान
चक्रपाणिः- कपालः खर्परशकलः । विषमं दुश्चिकित्स्यम् । लोमपिअरमिति कपिलम् ।
For Private and Personal Use Only