________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुष्ठचिकिष्मितम
२६३२
चरक-संहिता। ततः कुष्ठानि जायन्ते सप्त चैकादशैव च। न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते ॥ ४॥ स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नतिः। कोठानां लोमहर्षश्च कण्डूस्तोदः श्रमः क्लमः ॥ व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः। सुप्तत्वमङ्गदाहश्च कुष्ठलक्षणमग्रजम् ॥ ५ ॥
अत ऊर्द्ध मष्टादशानां कुष्ठानां कपालोडुम्बरमण्डलयजिह्व-पुण्डरोक-सिध्मकाकणेककुष्ठचौख्यकिटिमविपादिका
गङ्गाधरः-द्रव्यमुक्त्वा लिङ्गमाह-सप्त चैकादशैव चेति । अष्टादशैव विति न कृला पदभेदादिदं शापितं महाकुष्ठानिसप्तैव क्षुद्रकुष्ठान्येकादशैवेति । एषामुल्वणदोषभेदेन च सङ्ख्या निदानस्थाने पूर्वमुक्ता तेन नात्रोक्ता। सम्प्राप्तिहि संख्या विधा च सम्माप्तिश्च विशनलिङ्गं भवतीति संख्यापि लिङ्गमत्र बोध्यम् । सर्वेषां त्रिदोषजत्वं दर्शयति-न चैकदोषजमित्यादि। सुश्रुत हि सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि च भवन्त्युत्सन्नतस्तु दोषग्रहणमभिभवादिति ॥४॥
गङ्गाधरः-पूर्वरूपमाह-स्पर्शाज्ञखमित्यादि। स्पर्शाशत्वं खचि वापः स्पर्शज्ञानरहितसमित्यर्थः। अतिस्वेदो न वा स्वेद इति विकल्पेनातिस्वेदः। वैवयं शरीरस्य। कोठानामुन्नतिः। एवमवस्थापन्नशरीरस्य गात्रे यदि कश्चिद व्रणः स्यात् तदा व्रणानां यद्रपसम्भव एवं तच्छलानां तद्र पशूलादधिकं शूलं स्यात् । एवं तत्र गात्रे व्रणानां शीघ्रोत्पत्तिः स्याद् रोहणञ्च चिरेणैव स्याद रक्तपित्तातिदुष्टदेहलादिति चिरस्थितिर्भवति। सुप्तलमले अङ्गप्रदेशानामक्रियत्वं दाहश्चेति। कुष्ठस्याग्रजलक्षणं पूर्वरूपम् ॥५॥
चक्रपाणिः-सप्त चेति विशेषविच्छेदपाठेन सप्तानां कुष्टानां महाकुष्ठत्वम् एकादशानाञ्च क्षुद्रकुष्ठत्वं बोधयति । निदाने न विहितानामपि क्षुद्रकुष्टानामिह चिकित्साथै विधानम् ॥ ४॥
चक्रपाणिः-स्पर्शेत्यादि पूर्वरूपं, न वा स्वेद इति सम्बन्धः, अतिस्वेदास्वेदौ तु स्वेदवहस्रोतोऽवरोधानवरोधकृतौ ज्ञेयौ। शीघ्रोत्पत्तिश्विरस्थितिश्च व्रणानामेव ॥५॥
For Private and Personal Use Only