________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[प्रमेहचिकित्सितम्
२६२४
चरक-संहिता। प्रमेहिणां याः पिड़का मयोक्ता रोगाधिकारे पृथगेव सप्त। ताः शल्यहद्भिः कुशलैश्चिकित्स्याः शस्त्रेण संशोधनरोपणैश्च ॥३६
प्रमेही सहजप्रमेहवान् सोऽसाध्य उक्तः, कस्मात् ? वीजदोषात् ; गर्भारम्भकशुक्रशोणितरसानां मेहकरद्रव्यप्रभवखात्। मधुमेहिनो वा जातो यो नर उत्तरकालं मेही स्यात सोऽपि न साध्य उक्तः वीजदोषात् मधुमेहदुष्टशुक्रारब्धशरीरखात्। कैश्चिद् वाशब्दं पूर्ववचनापेक्षयेति मखा सहजमेही चात्र न व्याख्यायते। अत्र मधुमेहशब्द ओजोऽपकर्षकवातजद्विविधमधुमेहवाचकः अप्रतिकृत्याकाले मधुरखापन्नसबमेहवचनश्च, न तु कफजद्विविधमेहवाचकः तत्र शुक्रदुष्म्यभावात्। ननु तहि किमन्ये रोगा वीजदोषात् साध्याः स्युरित्यत आह-ये चापि केचिदिति। कुलजा इति कुलशब्दन मातापित्रोः शोणितशुक्रमुच्यते, दृश्यते हि ये रोगाः पितुर्मातुर्वा ते रोगा नापत्यस्येति । ये च पितुर्मातुश्च वा तेऽपत्यानाश्च दृश्यन्ते साध्यन्ते चेति ॥३७॥ ३८॥ - गङ्गाधरः--प्रमेहचिकित्सामुक्त्वा तपिड़काचिकित्सामाह-प्रमेहिणाम् इत्यादि। पदार्थाख्यतन्त्रयुक्त्यात्र प्रमेहशब्देन मधुमेह उक्तो बोध्यः, मयोक्ता इति वचनेन कियन्तःशिरसीयमाधुमेहिकपिड़का उपस्थाप्यन्ते। ननु पिड़का माधुमेहिकीत्यत्र मधुमेहशब्दो मेहमात्रवचनो वाच्यः। सुश्रुते हि “सर्वेषु
त्वात् । मधुमेहशब्देनात मेहमात्रमुच्यते । यदि तु वातिक एव मधुमेह उच्यते तदेतरप्रमेहयुक्तमाता. पितृजनितप्रमेहिणो नासाध्यत्वं स्यात्। मधुमेहिनो जनितस्य मधुमेहित्वमेव कारणानुरूपतया युक्तम् । ततश्च मधुमेहिनो वा जातो न साध्य इति वक्तमुचितम् । तस्मादपत्ये सामान्येन प्रमेहवचनेनापि तत्करणे पितरि कार्यानुरूपः प्रमेहो मधुमेहशब्दवाच्यो ज्ञेयः । मेहशब्दोऽयं सामान्येन सर्वमेहेषु वर्तत एव, यतः कियन्तःशिरसीये येषां पिड़का मधुमेहसम्बन्धित्वेन उक्तास्ता इह प्रमेहिणां माः पिड़झा इत्यनेन सामान्यप्रमेहसम्बन्धितयाऽनुदितास्तस्मान्मधुमेहशब्दः सर्वप्रमेहे मधुमेहविशेषे च वर्तते, यथा तृणशब्दः सर्वतृणे तृणविशेपे च वर्तते। प्रपञ्चितश्चायमर्थः कियन्तःशिरसीये इति नेह प्रतन्यते। कुलजप्रमेहासाध्यताप्रसङ्गेनापरेषामकुलजानामसाध्यतामाहये चापीत्यादि। कुलजा इति पितृपितामहादिकारणोदमूता अनेनैव सामास्येन वचनेन प्रमेहस्यापि कुलजस्थासाध्यतायां सिद्धायां पुनस्तद्वचनं सन्तानानुबन्धित्वोपदर्शनार्थम् । उक्त हिप्रमेहोऽनुसङ्गिनामिति ॥ ३७ ॥३८॥
चक्रपाणिः-प्रमेहपिड़काचिकित्सासूत्रमाह-प्रमेहिणामित्यादि। रोगाधिकारे इति रोग चतुष्के। अत्र शल्याधिकारवान्याधिकारेषु न विस्तरोक्तिरिति वचनान्न विस्तरः कृतः॥३९॥
For Private and Personal Use Only