________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः] चिकित्सितस्थानम्। २६२५ मेहेषु पिड़का भवन्ति” इति दृश्यते। तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिदोषैश्चानुगतधातोः प्रमेहिणो दश पिड़का जायन्ते, अपरश्च मधुमेहिनो जातः कारणानुरूपतया मधुमेह्य व भवति तेन मधुप्रमेही मधुमेहिनो वा न साध्य उक्त इति कत्तमुचितं स्यादितिचेन्न ; सुश्रुते हि वसामेदोभ्यामभिपन्नेत्यादिना प्रायेण मधुमेहिनो वसामेदोभ्यामभिपन्नशरीरत्वं त्रिदोषानुगतधातुखश्च मला यदि कदाचिदन्यमेहिनामपि वसामेदोऽभिपन्नदहखादिकं 'स्यात् तदा तेषामपि स्युरित्यभिप्रायेण तल्लिखिखा पुनः “पिड़कापीड़ितं गाढ़मुपसृष्टमुपद्रः । मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः” इति लिखितम् । अत एवोक्तं विना प्रमेहमप्येता जायन्ते दुष्टमेदस इति। न तु सर्वेषां मेहिनां पिड़का भवन्ति। नन्वेवमस्तु सुश्रते “सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः । मधुमेहखमायान्ति तदासाध्या भवन्ति हि” इत्युक्तं तेन सर्वमेहाणां मधुमेहावस्थायां पिड़का भवन्तीति मखा सर्वमेहवचन एवात्र प्रमेहिणामिति प्रमेहशब्दः कियन्तःशिरसीये पिड़का माधुमेहिकीति मधुमेहशब्दः प्रयुक्त इति चेत् सत्यं कियन्तःशिरसीये हि क्षीणैः पित्तादिभिगुरुस्निग्धादिसन्तर्पणे.नातिटबैरातगतिना वायुना मधुमेहमुपदश्यं तदुपेक्षया सप्त पिड़का
उक्तास्ताभिस्तु खलु दोषातगतिवायुजमधुमेहो पेक्षया यदा वसामेदोभ्यामभिपनदेहत्वं त्रिभिदोषैरनुगतशतुत्वं पुरुषस्य भवति तदा तस्योत्पन्नाभिः पिड़काभिर्गाढ़पीड़ितस्योपद्रवयुक्तस्य तदाटतगतिवातजमधुमेहस्य असाध्यत्वं पिड़ कापीड़ितं गाढ़ मित्यनेन सुश्रुतेनोक्तं सर्वमेहाणाश्चाप्रतिक्रियया वातेन खल्वोजोऽपकर्षणेन मधुरत्वं प्रापितानामसाध्यत्वं सर्च एव प्रमेहास्विति वचनेनोक्तं, न चैतावता सर्वप्रमेहिणां मधुरखापनत्वे पिड़ का भवन्त्येवेत्युक्तं भवतीति। तासां पिड़कानां प्रतिक्रियामाह-ताः शल्यविद्भिरित्यादि। ननु पिड़कापीडितस्य मधुमेहस्यासाध्यवमुक्तं तस्य चिकित्सोपदेशो हथेति चेन्न; यावद्धि मधुमेहो नोपद्रवैयुज्यते पिड़काभिश्च गाढू न पीड्यते बलमांसे च न क्षीयेते तावत् कृच्छण मधुमेहोऽयं दोपातवायुजः सिध्यतीत्यभिप्रायेण चिकित्सोक्ता। पिड़कानां मधुमेहस्य दृश्यते। सुश्रुतेऽपि पिड़कापीड़ितमित्यनेनावृतगतिवायुजस्य तथैवाप्रतिकारेण कालान्तरे मधुमेहखापन्नानाच असाध्यवमुक्त्वापि चिकित्सितस्थाने अथातो मधुमेहचिकित्सितं व्याख्यास्यामः, मधुमेहलमापन्नं भिषगभिः परिवर्जितम्। योगेनानेन मतिमान् प्रमेहिणमुपाचरेदित्यादिना चिकित्सितमुक्तमिति ॥३९॥
For Private and Personal Use Only