________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः] चिकित्सितस्थानम् । २६२३ जातप्रमेही छ मधुमेहिनो वा न साध्य उक्तः स हि वीजदोषात् । ये चापि केचित् कुलजा विकारा भवन्ति तांश्च प्रवदन्त्यसाध्यान्॥ य इक्षुबालिकारसमेह उक्तस्तत्र खलु कफस्य शीतपिच्छिलसान्द्रमधुरगुणैर्योगात् जातखादत्यर्थमधुरं शीतमीपपिच्छिलमाविलं काण्डेक्षरससङ्काशं मूत्रं भवति । यश्च शीतमेह उक्तस्तत्रापि कफस्य माधुर्यशैत्यगुणाभ्यां योगेनात्यर्थमधुरं शीतं मूत्रं भवति। तयोरिक्षबालिकारसमेहशीतमेहयोः कफ क्षीणे सति वातास्मकत्वेऽपि साध्यत्वं तदा बोध्यम्, यदि तत्रेक्षबालिकारसमेहे शीतमेहे वा कफेन मेदो न प्रदुष्टं पूर्व न वत्तते। यदि पूर्व कफेन मेदो दुष्टं वर्त्तते तदा तो चेक्षुबालिकारसमेहशीतमेहौ तत्कफमेदःसंसृष्टवात् न साध्यौ भवतः, कष्टसाध्यौ याप्यो वा हि वातेन संसृष्टत्वेन विरुद्वोपक्रमलाद् भवत इति तात्पर्य्यार्थः । कियन्तःशिरसीये -गुरुस्निग्धाललवणेत्यादिना खलूक्तं, गुरुस्निग्धादिभिः तेहेतुभिः श्लेष्मा पित्तश्च मेदश्च मांसश्च क्षीणमतिवर्द्धते। तै खराहतगतिः वायुमधुरस्वभावमोज आदाय वस्तिं गला मधुमेहं करोत्येव, स हि वायोर्वा पित्तस्य कफस्य वा चिह्नमनिमित्तं मुहुम्महुदैर्शयति मुहम्महुः क्षयं गलाप्याय्यते। तस्य मधुमेहस्योपेक्षया पिड़कानामत्र चिकित्साविधानात् धातुक्षये स्निग्धादि. वृद्धदोषातवायुजो मधुमेहः कृछसाध्य एव कफसम्भवास्तु साध्या एव मेदोदुष्टिं विनेति। द्विविधो मधुमेहो वातज एकः श्लेष्मजः त्वपरस्तत्र वातजो द्विविधः क्रमेण ओजोधालपकर्षणेन जात एकः क्षीणदोषेण गुरुस्निग्धादिवृद्धेनादृतगतिवातकृतेनौजोधावपकर्षणेनापर इति। तत्र पूर्वोऽसाध्यः शेषः कुछ साध्य उक्तः क्षीणबलमांसस्यासाध्यश्च स्यात् । तदुक्तमन्यत्र “गुल्मी च मधुमेहीच गजयक्ष्मी च यो नरः। अचिकित्स्या भवन्त्येते बलमांसपरिक्षयात्” इति, न ह्यत्र मधुमेहशब्दो मेहमात्रवचनो नापि मधुमेहमात्रपरो निदानोक्तक्रमण वातकृतमधुमेहश्च सव्वेमेहाणामप्रतिकारे कालेन जायते। श्लेष्मजोऽपि द्विविध इक्षबालिकारसमेहः शीतमेहश्चेति द्वौ मेदोदुष्टिं विना साध्यौ। मेदोदुष्टौ कष्टसाध्यौ याप्यो वा। इत्थश्च तत्र विशेषमाह -जातप्रमेहीत्यादि। जन्ममात्र यः अदृष्टमंदसः पैत्तिकाः साध्या भवन्तीत्यर्थः। किंवा प्रदुष्टाः कफपित्तमेहास्तावदसाध्याः। तथा कफपित्तमेहा ये धात्वपकर्षणाद् वातकृता भवन्ति तेऽपि सपूर्वरूपाः सन्तः साध्या भवन्ति, ये तु पूर्बरूपत्वेन कियन्तःशिरसीयोक्तं प्रमेहं विंशतिप्रमेहातिरिक्तं वर्णयन्ति, ते विंशतिरेव मेहा इति संख्याप्रतिनियमेनैव प्रयुक्ताः । मेहसाध्यताप्रकारत्वमाह-जात इत्यादि । प्रमेही यः प्रमेहिणो जातः सोऽप्यसाध्यो भवति अवापि हेतुमाह-स हि वीजदोषादिति । प्रमेहारम्भकदोषदुष्टवीजजातप्रमेहि
* जातः प्रमेही इति वा पाठः ।
For Private and Personal Use Only