________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६२२
चरक संहिता |
(प्रमेह चिकित्सितम्
सपूर्व्वरूपाः कफपित्तमेहाः क्रमेण ये वातकुताश्च मेहाः । साध्या न ते पित्तकृतास्तु याप्याः साध्यास्तु मेदो यदि न प्रदुष्टम् ॥ प्रदर्शयन् । क्षणात् क्षीणः क्षणात् पूर्णो भजते कुच्छ साध्यताम् " इति । एतमेव मधुमेह कियन्तः शिरसीये पठित्वा तेषाम् “उपेक्षयास्य जायन्ते पिडकाः सप्त दारुणाः" इति वचनेनासाध्यत्वप्रतिषेधः ख्यापितः, यदि हुपेक्षा नास्य क्रियते पिकाश्च न जायन्ते इत्यर्थात् कृच्छ्रसाध्यत्वं दर्शितम् । तथा आचार्यश्चतुषु वातमेहेष्वपरमधुमेहमसाध्यं पठितवान् इत्यतोऽत्र मधुमेहस्य साध्यत्वमात्रेणोक्तम् || ३६॥
गङ्गाधरः- कफपित्तमेहानामसाध्यतामाह - सपूर्व्वरूपाः इत्यादि । सपूर्व्वरूपाः सव्वपूर्वरूपानुवृत्तिमन्तः किञ्चित् पृथ्वरूपानुवृत्तिमन्तो वा कफमेहाः पित्तमेहाथ व्याधिस्वभावादन्येषां हि सव्र्वपूर्व्वरूपानुवृत्तितोऽसाध्यत्वमुक्तमस्य तु पूर्व्वरूपानुवृत्तिमात्रेण वातकृतास्तु क्रमेण निदानस्थानोक्तानुपूर्व्या वातेन कृता ये मेहास्ते च सपूव्र्व्वरूपाः पूर्व्वरूपरहिता वाप्यसाध्या एव चत्वारो हि वातकृता न साध्या भवन्ति विरुद्धोपक्रमत्वान्महात्ययत्वाच्च इति प्रागभिहितम् । लङ्घनादिक्रमेण ये कफारब्धाः पित्तारख्धाश्च वातोल्वणास्ते पूर्व्वरूपरहिताः याप्याः संसृष्टदोपमेदःस्थानवाद विरुद्धोपक्रमलाच्च इति प्रागभिहितम् । सपूरूपास्तु न साध्याः । ते पित्तकृतास्तु साध्या अपि स्युः यदि मेदो न तत्र मेहेषु पित्तेन दुष्ट स्यादिति । कफोत्थाश्च दश साध्या एवेति प्रागभिहितम् । तत्र
चक्रपाणिः संप्रत्युक्तानुकप्रमेहाणां साध्यासाध्ययाप्योपदर्शनार्थमाह-- सपूर्व्वरूपा इति । सह पूर्वरूपेण स्वेदाङ्गगन्धेत्यादिना वर्त्तन्त इति सपूर्वरूपाः, तत्र कप मेहाः साध्या उत्तास्ते न पूर्वरूपेण साध्या भवन्ति । पित्तमेहा याप्या उक्तास्ते प्रत्याख्येया भवन्ति, साध्यावस्थायामपि पुर्व्वरूपयोगेण यद्यपि सर्व्वरोगाणामसाध्यत्वमुक्तम् । उक्तञ्च यथा - " अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम् । विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्" इति । तथापि सर्व्वपूर्व्वरूपानुबन्धे यद्यपि सर्व्वरोगाणामसाध्यत्वमुक्तमिह तु असमस्तपूर्व रूपानुबन्धेऽप्यसाध्यत्वं भवतीति विशेषवचनालभ्यते, तथा क्रमेण च ये वातकृतास्ते पूर्वरूपरहिता अप्यसाध्याः । क्रमेणेति यथोक्तनिदानक्रमेण एतेन य एव निदानोत्त हेत्वादियोगेन वातजाश्चत्वारो जायन्ते ते मेहा असाध्याः, ये तु कफजाः पित्तजा वा वातानुबन्धत्वेन वातजारते साध्या याप्याश्च । अत एव तान् प्रति विहितानि सिद्धानि तैलघृतानि विहितानि । चिकित्सोक्त पूर्व्वं रूपराहित्येन पित्तकृते प्रमेहे कदाचित् साध्यत्वमपि भवतीत्यपवादविधिं दर्शयितुमुत्सर्गप्राप्तां पौत्तकयाप्यतामनुवदति- पित्तकृतास्तु tra | अवस्थासाध्यान् पैत्तिकानाह - साध्यास्त्वित्यादि । न प्रदुष्टमिति न प्रकर्षेण दृष्टम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
"
つ