________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः] चिकित्सितस्थानम् ।
२६२१ दृष्टा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद् द्विविधो विचारः। क्षोणेषु दोषेष्वनिलात्मकाः स्युः सन्तर्पणा वा कफसम्भवाः स्युः॥ स्मय्यमाणं पूर्वरूपं वर्तमानं व्याधि ज्ञापयति न तु भाविनम्, भाविन एव हि व्याधेवोधकं लिङ्गं पूर्व रूपं प्रोक्तमन्यथा भाविवर्तमानयोरुभयोर्वोधकं स्यादिति स्मृतं केवलं पूर्वरुपं न बोधयति व्याधिम्। पूवरूपस्मरणसहकृतं रूपन्तु बोधयति तदानीं हि पूर्वरूपासद्भावात् । वत्तैमानं हि वस्तु वर्त्तमानस्य हि बोधकं भवति, न खवर्तमानं वर्तमानस्येति विस्तरेण निदानस्थाने व्याख्यातम् ॥३५॥
गङ्गाधरः-अथ प्रमेहस्यावस्थान्तरमाह- दृष्टे त्यादि। प्रमेहं मधुरं सपिच्छं मधुपमञ्च दृष्ट्वा वर्तमानस्य भिषजोऽस्मिन् प्रमेहे द्विधा विचार: स्यात् । ननु कस्को विचार इत्यत आह-क्षीणेष्वित्यादि। कषायवमनविरेचनाधतियोगात् पित्तकफमेदोमांसेषु धातुषु क्षीणेषु सत्सु मधुरस्वभावमोजस्तत् रौक्ष्याद वायुना कषायत्वेनाभिसंसृज्य मूत्राशयेऽभिवहता कृता अनिलात्मकाः स्युरथ वा सन्तपणात कफसम्भवाः स्युरिति द्विविधं मधमेह विचारं कुय्योत। सन्तर्पणात् गुरुस्निग्धाम्लादीनां कियन्तःशिरसीये व्याख्यातानां सेवनादतिवृद्धस्तैः कफाधिक्यात सम्भवन्ति, तत् कफातगतिना वायुना खल्बोज आदाय वस्तिं गवा कृताश्चेत तर्हि अनिलात्मकाः स्युः सपिच्छा मधुपमा मधुराः प्रमेहाः कफसम्भवाः । इक्षबालिकारसमेहाः शीतमेहाश्चेति द्विविधा इत्यपरं मधुमेह विचारं कुर्यात्। कश्चित् तु कफोद्भवौ द्वाविक्षबालिकारसमेहशीतमेही मधुररसत्वेन तद्विचारं न लिखिखा “मधुमेहे मधुसमं जायते स किल द्विधा। क्रुद्ध धातुक्षयाद वायौ दोषातपथेऽथवा” इति, तत्र स्वनिदानः क्रद्ध क्षौद्रमेहो योऽसाध्य उक्तः स एको मधुमेहः। धातुक्षयात् सन्तर्पणैः वृद्धपित्तादिदोषातपथे वायौ तेन वायुना गृहीला ओजो वस्तिं गखा यो मधुमेहः क्रियते तल्लक्षणश्च पठितवान् । “आटतो दोषलिङ्गानि सोऽनिमित्तं
चक्रराणिः- दृष्टोत्यादि। क्षीणेषु दोपेष्वतिक्षीणेषु कफमेदःप्रभृतिषु। क्षीणत्वञ्चेह दृष्ये विवक्षितेऽपि मेदआदौ तथापि दोषसम्बन्धात् दोषशब्दोऽत्र ज्ञेयः। किंवा कफदोषापेक्षया बहुवचनत्वम्। यदि हि वातिकः स्यात् तदा हेत्वभावात् कफोऽनुवृद्धा स्पादित्यः। सन्तर्पणात् तु यदि ज्ञातं तपणजनितकफवृद्धत्वं तदा वातनिदानाभावाचायं वातजः किन्तु कफज इत्यवधार्यत इति भावः ॥ ३५ ॥३६॥
३२९
For Private and Personal Use Only