________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२०
चरक-संहिता। [प्रमेहचिकित्सितम हारिद्रवर्ण रुधिरश्च मूत्रं विना प्रमेहस्य हि पूर्वरूपः। यो मूत्रयेत् तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः॥३५॥ कट कतिक्तरुक्षेत्यादिभिहेतुभिर्वातप्रमेहाः प्रभवन्ति, ते हेतवस्तेषु प्रहेषु वातोल्वणेषु च न सेव्या इति। नन्वेवं निदानासेवनं कथं विधीयते निदानं ह्यदुष्टदोषाणां दुष्टिकरं न दुष्टदोषाणामित्याशङ्कायामाह-हेतोरित्यादि । शरीरस्वास्थ्यरक्षार्थ रोगाणां हेतोः असेवा यथा विहितैव तथा तत्तद्धेतोर्जातस्य रोगस्य चिकित्सा तत्तद्धेतोरसेवैव भवेत् । यो ह्यद्धं वर्द्धयति सामान्यात् स दृद्धमपि वर्द्धयति सामान्यात् । प्रकृत्यनुगुणैः केचिद्धेतको दोषं वर्द्धयन्ति तद्गुणसामान्यात् प्रकृत्यननुगुणैश्च केचिद् वद्धयन्ति तद्गुणसामान्यप्रभावाभ्याम् इति प्रकृतिसमसमवाये विकृतिविषमसमवायेऽपि निदानवजनमुपयुक्तं भवति ॥ ३४॥
गङ्गाधरः-ननु रक्तप्रमेहमाञ्जिष्ठप्रमेहयोरयं सन्देहः, किमयं मूत्रमागपत्त रक्तमयोगं रक्तपित्तं नाम रोगः किमयं रक्तप्रमेहो माञ्जिष्ठप्रमेहो वेति तबाह सन्देहो न कर्त्तव्यः कुत इति तद् दर्शयति-हारिद्रवर्णमित्यादि । प्रोहस्य पूर्वरूपैः स्वेदोऽङ्गगन्ध इत्यादिभिरत्रोक्तः निदानस्थाने प्रमेहनिदानाध्यायोक्तश्च जटिलीभावं केशेष्वित्यादिभिविना हारिद्रवर्ण रुधिरश्च मूत्रं यो मूत्रयेत् तं रोग प्रमेहं न वदेत्, स हि रक्तस्य पित्तस्य प्रकोप इति वदेत् । यदि हि प्रमेहोऽभविष्यत्, कथं प्रमेहपूर्वरूपं नाभविष्यत् ? पूर्वरूपं विना हि दोषजो व्याधिन भवति । तहि कथं रक्तपित्तस्य पूर्वरूपं विना सम्भव इति चेन्न, प्रमेहस्य हि पूर्वरूपैविनेति वचनेनैव ज्ञापितं रक्तपित्तपूर्वरूपपूर्वकं चेद्धारिद्रवर्ण रुधिरं वा यो विना प्रमेहपृर्वरूपैमूत्रयेत् तदा रक्तपित्तस्य प्रकोप इति वदेदिति । ननु पूर्वरूपन्तु नदानी न बत्तते कथं तज्ज्ञानं स्यादिति चेदुच्यते। हारिद्रवर्णरुधिरमूत्रणात् पूर्व किं प्रमेहपूव्वरूपं किं रक्तपित्तपूर्वरूपं तस्याभूदिति प्रति स.न्धाय यत्पूव्वरूपमभूत् तं व्याधि वददिति। ननु तहि किं पूव्वरूपस्मरणं रक्तपित्तपित्तप्रमेह विज्ञाने कारणम् ? यदि चेष्टं स्यात् तहि निदानस्थाने प्रोक्तं तस्योपलब्धिनिदानपूर्वरूपलिङ्गोपशयसम्पाप्तितश्चेति कथं व्याप्यते। पूर्व रूपस्मरणश्चाधिकमुपलब्धिकारणं वाच्यं स्यादिति चेत् न, रूपावस्थायां हि
चक्रपाणिः ---सम्प्रति प्रमेहलक्षणस्य रक्तपित्तलक्षगसाम्ये रक्तपित्ते प्रमेहचिकित्सा मा मूदिति कृत्वा प्रमेहरक्तपित्तभेदकं लक्षणमाह-हारिगति ॥ ३५ ॥
For Private and Personal Use Only