SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६१८ (प्रमेहचिकित्सित चरक संहिता | सन्तर्पणोत्थेषु गदेष योगा मेदखिनां ये च मयोपदिष्टाः । विरुक्षणार्थं कफपित्तजेषु सिद्धाः प्रमेहेष्वपि ते प्रयोज्याः ॥३०॥ व्यायामयोगैर्विविधैः प्रगाढ़ रुद्रर्त्तनैः स्नानजलावसेकैः । सेव्यत्व गेलागुरुचन्दनादाविलेपनैश्वाशु न सन्ति मेहाः ॥ ३१ ॥ क्लेदश्च मेदश्च कफश्च वृद्धः प्रमेहहेतुः प्रसमीच्य तस्मात् । वैद्येन पूत्रं कफपित्तजेषु मेहेषु कार्य्याण्यपतर्पणानि ॥ ३२ ॥ न मेहा भवन्ति । न केवलं मेहा न भवन्ति तांस्तांश्च भक्षयतः पुरुषस्य श्वित्रादिकानि च न भवन्ति । तथा मुद्रामलकयोर्मिश्रितयक्ष्यविधया प्रयोगान् भक्षयतश्च पुरुषस्प मेहाः श्वित्रादीनि च न भवन्ति ॥ २९ ॥ गङ्गाधरः सन्तर्पणेत्यादि । ये योगाः सन्तर्पणोत्थेषु गदेष सूत्रस्थाने सन्तर्पणीयेऽध्याये शस्तमुल्लेखनं तत्रेत्यादिना पूच्चमुक्ताः तथा मेदखिनां ये योगाः सूत्रस्थानेऽनिन्दितीयेऽध्याये गुडूचीभद्रमुस्तानां प्रयोग इत्यादिना पूर्व्वमुक्ताः विरुक्षणार्थं मया ते योगा अपि कफपित्तजेषु प्रमेहेष सिद्धाः सिद्धफला अत एव प्रयोज्या इतिं; न तु वातप्रमेहेषु रुक्षणाथत्वात् ॥ ३० ॥ गङ्गाधरः- व्यायामयोगे रित्यादि । विविधैरध्वगमनमलकीड़ादिभिर्नानाविधैर्व्यायामैयुक्त्या युक्तः । प्रगादिष्टः सेव्यादिद्रव्येण कृतैरुद्वर्त्तनैस्तथा सेव्यादिभिः काथभूतैः स्नानेन तत्काथजलाभिषेकेण च तथा सेव्यादिभिः विलेपनैः प्रमेहा आशु न सन्ति न वर्त्तन्ते विनश्यन्तीति भावः । तत्र सेन्यादिद्रव्यमाह - सेव्येत्यादि । सेव्यमुशीरम्, एला स्थूलैला, अगुरु कृष्णागुरु, चन्दनं श्वेतचन्दनम्, आद्यपदेन हरिद्रापत्रग्रन्थिपर्णादिकं बोध्यम् ॥ ३१ ॥ गङ्गाधरः - अथ सन्तर्पणोत्थगदेषु प्रमेहः सन्तर्पणीयेऽध्याये पठितः, तेन प्रमेहे किं पूर्वमपतर्पणं विधेयं किं न वेत्यत आह-क्लेदश्चेत्यादि । यस्मात् क्लेदो वसालसीकादिर्घातुर्मदश्च कफश्च वृद्धः प्रमेहहेतुर्भवति, तस्मात् वैद्येन तान वृद्धान् क्लेद मेदःकफान् प्रसमीक्ष्य कफपित्तजेषु मेहेषु पूर्व्वम् अपतर्पणानि यौगिकत्वात् जाङ्गलमृगद्विजानामिति ज्ञेयम् । प्रयोगानित्यभ्यासात् । सन्तर्पणोत्थेषु गदेष्वित्यत्र सन्तर्पणीयाध्याये त्रिफलारग्वधपाठा इत्युक्ताः ॥ २१–३० ॥ चक्रपाणि: - सेव्यमुशीरं, चन्दनायैरित्यत चन्दनादिग्रहणे हि सेव्यादीनाञ्च ग्रहणं स्यात् । सम्प्रति उत्सर्गतः कफपित्त मेहाणामपतर्पणमाह । यद्यपि अपतर्पणेन गुल्मादिदोषो भवति, तथापि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy