________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः] चिकित्सितस्थानम् । २६१७ सारोदकं वाथ कुशोदकं वा मधूदकं वा त्रिफलारसं वा। सीधं पिबेद वा निगदं प्रमेही माध्वीकमग्रा चिरसंस्थितं वा ॥ मांसानि शल्यानि मृगद्विजानां खादेद यवानां विविधांश्च भक्ष्यान्। संशोधनारिष्टकषायलेहैः सन्तर्पणोत्थान् शमयेत् प्रमेहान् ॥२८॥ भृष्टान् यवान् भक्षयतःप्रयोगान् शुष्कांश्च सक्तून् न भवन्ति मेहाः। श्वित्रश्च कृच्छ कफजञ्च कुष्ठं तथैव मुद्दामलकप्रयोगान् ॥२६॥ इति दन्त्यासवः। एवं तस्मिन् काथे भल्लातकानां पकानां जले क्षिप्तानां मग्नानामिष्टकाचूर्णेन घर्षितानां संसिद्धानामस्थि चतुष्पलं पेपयिखा दत्त्वा सिता वष्टपला क्षौद्रश्च तावदित्यष्टशरावमितं दत्त्वा पक्वं घृतभाजने स्थाप्यः । इति भल्लातकासवः। इति दन्तीसिताभ्यां लोध्रासवादस्य भेदो भल्लातकासवाचास्य भेदो भल्लातकाभावात् । भल्लातकासवस्य च दन्त्यासवाद्विशेषो दन्त्यभावात् इति। तौ द्वौ पृथगासवौ वा पूर्ववद्गुणो बोध्यौ। दन्त्यासवो भल्लातकासावश्च ॥२७॥
गङ्गाधरः-सारेत्यादि। सारस्य सर्वपक्षाणां सारस्य प्रमेहहितखात् श्वेतखदिराणां सारस्येति केचित्, उदकं तत्सारस्य काथं कुशोदकं कुशमूलस्य काथं मधदकं पुरातनमबर्द्ध जलं त्रिफलारसं पथ्यामलकविभीतकानां फलकाथं वा सीधु वा चिरस्थितं पुराणं पुराणं माध्वीकं वा निगदमगदसंज्ञ भेषजं वा प्रमेही पिधे । मांसानीत्यादि। मृगाणां हरिणादीनां द्विजानां पक्षिणां मांसानि रसादिविधया तत्कृतशृल्यानि च शूलपक्कानि तेषां मांसानि प्रमेही खादेत्। यवानां भक्ष्यान् विविधान् खादत्। संशोधनेत्यादि। कल्पस्थानोक्तवमनविरेचनयोगः संसाध्य अरिष्टं ग्रहण्यादुक्तं कषाया उक्ता लेहाश्च तैर्भेषजद्रव्यैः कार्या एतैः सन्तर्पणोत्थांस्तान् प्रमेहान् स्वस्वाधिकारोक्तस्तैः शमयेत् ॥२८॥
गङ्गाधरः--भृष्टानित्यादि। भृष्टान् यवान् भक्षयतो नरस्य मेहा न भवन्ति । प्रयोगान् यवप्रयोगान् भक्षयतश्च न मेहा भवन्ति । शुष्कांश्च सक्तून् भक्षतोऽपि कर्षमाणानि दत्त्वा कर्त्तव्य इत्यर्थः । क्षौद्रञ्च तावादति क्वाथापेक्षयाष्टभागमित्यर्थः। सारोदकमिति सारः प्रधानः खदिरादिसारे पड़ङ्गविधिना कृतमुदकं सारोदकं ज्ञेयम्, एवं कुशोदकं ज्ञेयम् । मधुना मधुरीकृतमुदकं मध्दकम्। शूल्यानीति शूलभृतानीत्यर्थः। मृगद्विजानामित्यव
For Private and Personal Use Only