________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१६
चरक संहिता। प्रमेहचिकित्सितम् लोध्र शटी पुष्करमूलमेला मूवी विडङ्ग त्रिफलां यमानीम् । चव्यं प्रियङ्ग क्रमुकं विशालां किशततिक्तं कटुरोहिणीश्च ।। भार्गी नतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषं सगठम् । कलिङ्गाकान् केशरमिन्द्रसाद्वान् नखं सपत्रं मरिचं प्लवञ्च ॥ द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे। रसेऽर्द्धभागं मधुनः प्रदाय पक्षं निधेयो घृतभाजनस्थः ॥ लोधासवोऽयं कफपित्तमेहान् विप्र निहन्याद द्विपलप्रयोगात्। पाण्डामयाशास्यरुचिं ग्रहण्या दोषं किलासं विविधञ्च कुष्ठम् ॥२६
इति लोध्रासवः। क्वाथः स एवाष्टपले च दन्त्या भल्लातकानाञ्च चतुष्पलं स्यात् । सितोपला त्वष्टपला विशेषः क्षौद्रश्च तावत् पृथगासवौ तौ ॥२७॥ लक्षणेषु उल्वणकफाद्यन्यतमेष्वित्यर्थः। अत एवोक्तं दृष्टानुबन्धं पवनात् कफस्य पित्तस्य वेति । एतत् तु विधिना द्वानुबन्धैकदोषजानाञ्च बोध्यम् ॥२५॥ __गङ्गाधरः-लोभ्रमित्यादिना लोध्रासवः। तत्र क्रमुको गुवाकः, कलिङ्गका निन्द्रसाहानिति भागद्वयमिन्द्रयवस्येत्यथः। केशरं नागपुष्पस्य केशरं, नवं व्याघ्रनवं, प्लवः कैवर्तमुस्तकम्। एषामेकोन त्रिंशतो द्रव्याणां प्रत्येक कर्षमानमम्भसो द्रोणे पक्त्वा चतुर्भागेकभागेऽवशिष्टे वस्त्रेण पूते तस्मिन काथे रसे षोडशशरावमिते तदर्द्धमष्टशरावमितं मधु प्रदाय घृतभाजन एष मधुमिश्रितः काथरसः पक्षं पञ्चदशदिनं निधेयो घृतभाजने निधाय स्थापयितव्य इति पक्षाज्जातरसः स लोध्रासवः। अयं द्विपलप्रयोगादित्युत्सर्गात् पुरुषव्याध्याद्यपेक्षया मात्राप्रयोगात् कफपित्तमेहान् निहन्ति । लोध्रासवः ॥२६॥
गङ्गाधरः-अपरावासवावाह-काथः स एवाष्टेत्यादि। स एव पूव्वोक्तानां लोध्रादीनामेकोन त्रिंशतो द्रव्याणां कर्षमानानां प्रत्येकं जलद्रोणे पक्त्वा षोड़शशरावावशेषो वस्त्रेण पूत एव गृहीतोऽत्र काथे दन्त्याश्चूर्णस्याष्टपळे अष्टपला सिता मधु च तावत् अष्टशरावमितं दत्त्वा पक्षं घृतभाजने स्थाप्यः । चक्रपाणिः-लोध्रमित्यादौ क्रमुकः पट्टिकालोध्र पूगं वा, इन्द्रसाहा वीजपुरका ॥२६॥ चक्रपाणिः-काथः स एवेति तावन्मानजलेनैव दन्त्यष्टपलं मलातकचतुःपलं लोध्रादीनि
For Private and Personal Use Only