________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
चिकित्सितस्थानम् ।
२६१५ त्रिकण्टकाश्मान्तकसोमवल्कैर्भल्लातकः सातिविषैः सलोधे। पाठापटोलार्जुननिम्वमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च ॥ मञ्जिष्ठया चागुरुचन्दनैश्च सबैः समुस्तैः कफवातजेषु। मेहेषु तैलं विषचेद घृतन्तु पैत्तेषु मिश्रं त्रिषु लक्षणेषु * ॥ २५॥ उच्यन्ते, तेपामेकैकयोगानां द्रव्यगणस्य तैलधृते कफपित्तयोः साध्ये इत्यर्थः । काथकल्काभ्यां 'यत्राधिकरणेनोक्तिर्गणे स्यात् स्नेहसंविधौ। तत्रैव कल्कनि!हाविष्येते स्नेहवेदिना' इति वचनादत्राधिकरणे गणे तैलघृतसाधनोक्तः॥२४॥
गङ्गाधरः-त्रिकण्टकेत्यादिभिः श्लोकपादैरुक्तरेकैकयोगैः सर्वैः समुस्तैः मुस्तकसहिताण सर्वान् योगान् कृखा तदेककयोगद्रव्यगणस्य काथकल्काभ्यां सिद्धं तैलं कके वाते च मेहे विपचेत्। पैत्तेषु मेहेषु घृतं विपचेत्। त्रिषु लक्षणेषु वातपित्तकफानामनुबन्धानुबन्ध्यानां लक्षणवत्सु मेहेषु मिश्रं तैलं घृतञ्च मिश्रयिखा विपचेत् । अश्मान्तकं स्वनामख्यातक्षविशेषः। सोमवल्क श्वेतख दिरं, सोमवल्कान्त एकयोगः। लोध्रान्तो द्वितीयः। समुस्तः काय्यः । मुस्तान्तो योगस्तृतीयो नायं पुनः समुस्तः कार्यः समुस्तखात्। हरिद्रासहितदीप्यकान्तश्चतुर्थो योगः, सोऽपि समुस्तः कार्याः। चन्दनान्तः पञ्चमः, सोऽपि समुरतः कार्य्यः। एतैः कल्कैश्चतुगणैः काथैश्च तैलं तिलप्रभवस्नेहं कफवातेषु केवलकफेषु केवलवातेषु च विपयेत् । पैत्तेषु मेहेषु ते कल्कैश्चतुगणकाथैश्च गव्यं घृतं विपचेत। त्रिषु लक्षणेषु सान्निपातिकलक्षणेषु मिश्रं तैलं घृतश्च मिश्रयिखा तैः कल्कैश्चतुगुणकाथैश्च विपचेत् । ननु त्रिलक्षणः प्रमेहो नोक्तस्तत् कथं तच्चिकित्सा हि विहितेति चेत् उच्यते। त्रिषु लक्षणेषु इति वचनेन अनुवन्धानुबन्ध्यरूपाणां त्रयाणां दोषाणां पित्तेऽप्युक्तम्। सर्वरित्युक्तेऽपि सवै: स्नेहसाधनं स्यादत आह-समुस्तैरिति । मिश्रमिति तैलघृतयमकम् । त्रिषु लक्षणेष्विति विदोषलक्षणे मेलके सति त्रिदोषत्वम् । अनुबन्ध्यानुबन्धकृतं कफपित्तमेहेष्वेव ज्ञेयम्। किंवा सर्वेषामेव मेहानां त्रिदोषजत्वात् त्रिदोषत्वाविर्भावः कदाचिढ़ भवतीति ज्ञेयम् ॥ २४ ॥ २५॥ * इतः परम् ‘‘फलतिकं दारु निशा विशाला मुस्ता च निःक्वाथ्य निशा सकल्का। पिबेत् यं मधुसम्प्रयुक्तं सर्वप्रमेहेषु समुदतेषु ॥” इत्यधिकः श्लोकः चक्रदत्ततादशै दृश्यते।
For Private and Personal Use Only