________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१४
चरक-संहिता। [प्रमेहचिकिसितम कम्पिल्लसप्तच्छदशालजानि वैभीतरौहीतककौटजानि । कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात् कफपित्तमेही ॥ पिबेद रसेनामलकस्य चापि कल्कीकृतान्यक्षसमानि काले। जीणे च भुञ्जीत पुराणमन्नं मेही रसैबङ्गलमनोज्ञ ॥२३॥ दृष्टानुबन्धं पवनात् कफस्य पित्तस्य वा स्नेहविधिर्विकल्प्यः। तैलं कफे स्यात् स्वकषायसिद्धं पित्ते घृतं पित्तहरः कषायैः ॥२४॥
याप्यार्थ मेहेषु योज्यानि। तस्य फलमाह ---मेद इत्यादि। तैः कपाययोगः काथकल्करूपैः सिद्धेः स्नेहस्तेषां मेहिनां मेदः शममेति कफश्च शममेति स्नेहैस्तैले तैर्वा वायुः शगमेतीति मेदःकफवातास्तैः पक्वैस्तैलै तेर्वा इम यान्तीत्यर्थः ॥२२॥
गङ्गाधरः-ननु पित्तानुबन्धादौ किं काय्यमित्यत आह-कम्पिल्लेत्यादि। कम्पिल्लं कमलागुड़ीति लोके तस्य, तथा सप्तच्छदशालयोस्तथा विभीतकादीनां चूर्णानि कपित्थपुष्पर्णानि च कफपित्तमेही लिह्यात् । पृथक्पदानि योगत्रय ख्यापनार्थम्। शालान्त एकः, कोटजान्तो द्वितीयः, तृतीयः कपित्थपुष्पाणि । त्रीनेतान् योगान् कल्कीकृतान् अक्षमात्रान् आमलकस्य रसेनापि पिबेत् । तदोषधे जीणे पुराणशालियवाद्यन्न मनोज्ञ : जाङ्गलहरिणशशकादिमांस रसमेही सर्वप्रमेही न तु कफपित्तमेही तदनुत्तौ पुनरुक्तखात् भुञ्जीत ॥२३॥
गङ्गाधरः-दृष्ट्वेत्यादि। कफस्य पित्तस्य वा पवनात् पवने नानुबन्धं दृष्ट्वा स्नेहविधिरतैलघृतविधिविकल्प्यः विभज्य कल्पयेत्। तद्विभागमाह-तैलमित्यादि । पवनानुवन्धे कफे स्वकषायसिद्धं कफमेहहरयोगोक्तद्रव्याणां कषायेण चतुगुणेन पादेन कल्केन सिद्धं तैलं योज्यं, पित्ते पवनानुबन्धे पित्तप्रमेहे पित्तहरैः पित्तप्रमेहहरैः कषायैश्चतुर्गणकाथैः पादिकैः कल्कैश्च सिद्धं घृतं योज्यम् । कषायशब्देनात्र हि कफादिमेहोक्तकषाययोगा ये य उक्तास्ते ते त्वेकैकयोगा
संस्कारेऽपि । सिद्धानि तैलानीति ---एतैरेव कपायैः सिद्धानि । अनिलात्मकेविति कफपित्तमेहेष्वेव क्रमादपि नानुवन्धेषु उत्पत्तिविशिष्टानिलजानामसाध्यत्वेनाचिकित्स्यत्वात् । कफमेही पित्तमेही च। कल्कीकृतानीति कम्पिल्लकादीनि कल्कीकृतानि च ॥ २१-२३ ॥
चक्रपाणि:-अनुबन्धमिति पश्चादनुगतं, विकल्प्यः । कफे स्यादिति कफ वातानुबन्धे स्यादेवं
For Private and Personal Use Only