________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
चिकित्सितस्थानम्।
२२६७ रसायनानां द्विविधं प्रयोगमृषषो विदुः। कुटीप्रावेशिकञ्चैव वातातपिकमेव च ॥१०॥ कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते । नृपवैद्यद्विजातीनां साधूनां पुण्यकर्मणाम् ॥ निवासे निर्भये शस्ते प्राप्योपकरणे पुरे। दिशि पूर्वोत्तरस्याञ्च सुभूमो कारयेत् कुटीम् ॥ गङ्गाधरः-अथ रसायनप्रयोगविधोच्यते-- रसायनानामित्यादि। कुटाप्रावेशिकमिति निर्वातातपगृहं कुटी। कुटीप्रवेशेन नित्तः प्रयोगः कुटी प्रावेशिकस्त, वातातपिकमिति वातातपोपसेवनेनापि निवृत्तः प्रयोगो वातातपिकस्तं विदुरित्यन्वयः। अत्राचार्येणाप्तम्यगुपयोगाभिप्रायेण सर्वेषामधिकार इति कृखा रसायनाधिकारिणो नोक्ताः। सुश्रुतेन सम्यगुपयोगप्रतिषेधाभिप्रायेण अनधिकारिणो रसायनस्योक्ताः। तद् यथा --अथ सप्त पुरुषा रसायनं नोपयुञ्जीरन्। तद यथा। अनात्मवान् अलसो दरिद्रः प्रमादी व्यसनी पापद भेषजापमानी चेति। सप्तभिरेव कारणैन सम्पद्यते। अज्ञानादनारम्भादस्थिरचित्तवाद दारिद्रयादनायत्तखादधदिौषधालाभाच्चेति। एभ्योऽन्येऽधिकारिण इति बोध्यम् ॥१०॥
गङ्गाधरः -ननु कथं कुटीपावेशिकं प्रयुञ्जीतेत्यत आह---कुटीत्यादि। नृपेत्यादि । नृपादीनां निवासे पुरे नगरे । निर्भये सर्पचौरदस्युवादिभयरहिते शस्ते जलाधापन्ने प्राप्योपकरणे यदा यदा यद् यद् उपकरणमावश्यक भवत्युपयोगे तत्तत् तदा तदैव प्राप्यं यत्र तस्मिन् पुरे नपादिवासनगरे हि बणिक प्रभृतिबहुप्रसारिजनसद्भावादित्यर्थः। तथाविधे च नगरे तन्नगरात् पूोंत्तरस्यां पूर्वस्यां वोत्तरस्यां वा दिशि सुभूमौ साधुभूभागयुक्ते देशे कुटी कारयेत्। भूमिप्रविभागः सुश्रुतेनोक्तः। वभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यतनदेवतायतनसिकताभिरनुपहतामनपरामदूरोदकां स्निग्धां प्ररोहवतीं मृद्री स्थिरां समां कृष्णां गौरी लोहितां वा भुमिमोपधार्थ परोक्षेत, तस्यां जातमपि क्रिमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गरनुपहतमेकरसं पुष्टं
चक्रपाणिः-कुटीप्रवेशेन यत् क्रियते, तत् कुटीप्रावेशिकम् : वातातपसेवयापि यत् क्रियते
For Private and Personal Use Only