________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। रसायनपाद
२२६६
चरक-संहिता। सन्तानमूलं येनेह प्रेत्य चानन्त्यमश्नुते । यशः श्रियं बलं पुष्टिं वाजीकरणमेव तत् ॥७॥ खस्थस्यौजस्करं त्वेतद् द्विविधं प्रोक्तमौषधम्। यद् व्याधिनिर्घातकरं वक्ष्यते तञ्चिकित्सिते ॥ चिकित्सितार्थ एतावान् विकाराणां यदौषधम् । रसायनविधिश्चाग्रे वाजीकरणमेव च ॥८॥ अभेषजमिति ज्ञयं विपरीतं यदौषधात् ।।
तदसेव्यं निषेव्यन्तु प्रवक्ष्यामि यदौषधम् ॥ ६ ॥ सुबहुप्रजो भवन बहुमतो भवति, यच्च सन्तानमूलं समूहापत्यादीनां मूलम् । येन इह लोके प्रेत्य च परं लोकं गवा चानन्त्यमच्युतं यशः श्रियं बलं पुष्टिश्चाश्नुते, तदव वाजीकरणं वृष्यमित्यर्थः। तथा चापत्यसन्तानादिकरत्वं वाजीकरणत्वम्। सुश्रुतेऽप्युक्तम्। “सेवमानो यदौचित्याद वाजीवात्यर्थवेगवान्। नारीस्तर्पयते तेन वाजीकरणमुच्यते।” ननु कुतो वाजीकरणसंज्ञे त्यत आहयेनेत्यादि। अधिकं पुनःपुनर्नारीषु व्रजेत् । व्यज्यते इति पाठे येन नारीषु सामर्थ्य मैथुनशक्तिरधिकं व्यज्यते इत्यर्थः । येनावाजीव नरो वाजीव क्रियतेऽवाजिनं वाजिनमिव करोति यत् तद् वाजीकरणमिति। वाजः शुक्रं तद् अस्यास्तीति वाजी, अवाजिनं वाजिनं करोतीति वाजीकरणमित्यन्ये । स्वस्थेत्यादिना उपसंहारः॥७-९॥ प्रियत्वचेहोपचितशुक्रतया निरन्तरव्यवायकर्तृत्वात् ; यदुक्तम्,-"विरूपमपि योद्धारं भृत्यमिच्छन्ति पार्थिवाः। व्यवायव्यायतं मूर्ख पृष्टं पतिमिव स्त्रियः"। उपचीयत इति पुष्टिं प्राप्नोति ; अक्षयमिवाक्षयम् । फलवदिति गर्भजनकम् । चत्यो देवतायतनम् । अर्थणीयोऽच्चाः। आनन्स्यमिवानन्त्यं दीर्घ सन्तानतामित्यर्थः। चिकित्सित इति ज्वरादिचिकित्सिते। ननु रसायनवाजीकरणे अपि ज्वरादिचिकित्सिते एच, तत् किं विशिष्योच्यते-'वक्ष्यते तच्चिकित्सिते' इत्यादि, सत्यम्, रसायनं वाजीकरणञ्च ज्वरादिव्याधिहरत्वात् 'चिकित्सित' शब्देनोच्यत इति । अथ व्याधिहरत्वाचिकित्सिते वक्तव्यत्वाच्च, रसायनवाजीकरणे व नु वक्तव्ये इत्याहरसायनेत्यादि। विधिविधानं रसायनाभिधानमित्यर्थः। अग्र इत्यनन्तरम्। वाजीकरणञ्चाग्रे. ऽभिधास्यत इति शेषः। अभेषजमपि पूर्वोद्दिष्टं विवृणोति-अभेषजमित्यादि। विपरीतं रोगजननलक्षणार्थकारि ॥७-९॥
For Private and Personal Use Only