________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६८
चरक संहिता ।
विस्तारोत्सेधसम्पन्नां त्रिगर्भा सूक्ष्मलोचनाम् । घनभित्तिभृतसुखां सुस्पष्टां मनसः प्रियाम् ॥ शब्दादीनामशस्तानामगम्यां स्त्रीविवर्जिताम् इष्टोपकरणोपेतां सजवैद्यौषधद्विजाम् ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपाद १
पृथ्ववगाढमूलमुदीपाञ्च वचमाददीत । इत्यभूमिपरीक्षा विशेषः सामान्यः । विशेषrea darsaat स्थिरा गुर्बी श्यामा कृष्णा वा स्थलरुक्ष शस्यमाया स्वगुणभूषिष्ठा स्निग्धा शीतलासनोदका विस्तृणकोमलरुक्षनाया शुक्लाम्बुगुणभूयिष्ठा । नानावर्णा लघ्वमवती प्रविरलापाण्डुरुक्षमरोहा अनिगुणभूयिष्ठा । रुक्षा भस्म -रासभ-समवर्णा तनुरुक्ष कोटराल्पर सरुक्षमायाऽनिलगुणभूयिष्ठा । मृद्री समायभवत्यव्यक्तरसजला सर्व्वतोऽसाररुक्षा महापर्व्वतरुक्षमाया श्यामा चाकाशगुणभूयिष्ठेति । एतर् भूमि विभागवचनं सुश्रुतस्य द्रव्यग्रहणार्थमपि गुणज्ञापकं भवति, तेन तत्पुरुषस्योपयुक्त गुणवद्ध मिरनेनोपदेशेन परीक्ष्या भवति ।
ननु कुटीं कीदृशीं कारयेदित्यत आह - विस्तारेत्यादि । कुटीं विस्तारथ तिर्यक् । उत्सेधात् उच्चतः सम्पन्नां सम्यारूपेण गुणवतम् । त्रिगभी वामदक्षिणतः सम्मुखपश्चाद्भागतश्च त्रीणि गर्भकोष्ठानि यस्यास्ताम् । इति चतसृभिर्मित्तिभित्रकोष्ठा भवति । सूक्ष्मलोचनाम् ऊर्द्ध तो भित्त्यां प्रकाशार्थम् अतिक्षुद्रक्षुद्रच्छिद्रवतीं बहुतरवायुप्रवेशानीच्छिद्रवतीम् । घनभित्तिं दृढ़भित्तिम् ऋतुसुखां यदा यो वा ऋतुः स्यात् तदैव सुखमुपलभ्यते यत्र ताम् । सुस्पष्टी बृहतकोष्ठगर्भत्वेन सप्रकाशरूपाम् । अशरतानां शब्दादीनामागम्यामिति कुत्र्या वृहत्त्वगुणेन तत्स्थानगुणेन च बोध्यम् । यत्र कुटीं कुर्यात् तत्र निकटेऽप्रशस्तशब्दादिकारिजन पश्वादिभावा न वर्त्तन्त इति भावः । ययागन्तुकाश्चेदशस्तशब्दादयः स्युस्तदा वृहत्प्रमाणगुणेन कुट्या निवार्या भवन्तीति भावः । सज्जवैद्यादिकां तत्र कुट्यां वैद्योपधद्विजान् सर्व्वदा वासयेत् । पचन्तु तस्य सशोधनादिक्रियार्थ तत्रापत्प्रतीकारार्थ- ततपुरुषोपभोगार्थादिकं यावद् भवति । द्विजश्वाथर्ववेद विन्माङ्गलिकः, वैद्यश्व प्राणाभिसरः स्वगुणसम्पन्नः ॥ ११ ॥
For Private and Personal Use Only
तद् वातातपिकम् । लिगभी प्रथममेकं गृहम् तस्याभ्यन्तरे द्वितीयम्, तस्याभ्यन्तरे तृतीयम्, एवं त्रिगर्भास्त्रयो गर्भा अन्तराणि यस्यां सा । सूक्ष्मलोचनामिति अल्पद्वारजालिकाम् ।