________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रमेहचिकित्सितम्
२६०८
चरक संहिता । विद्यात् प्रमेहान् कफजान् दशतान् चारोपमं कालमथापि रक्तम् हारिद्रमाञ्जिष्ठमथापि नीलमेतान् प्रमेहान् षड़ शन्ति पैत्तान् ॥ मज्जौजसा वा वसयान्वितं वा लसीकया वा सततं विबद्धम् । चतुर्व्विधं मूत्रयतेऽनिलेन शेषेषु धातुष्वव कर्षितेषु ॥ ७ ॥ वर्णं रसं स्पर्शमथापि गन्धं यथास्वदोषं भजते प्रमेहः । श्यावारुणो वातकृतः सशूलो मज्जादिसाद्गुण्यमुपैत्यसाध्यः ॥८॥
"
जलोपममुदकमेहम्, इक्षरसोपममिक्षमेहं, घनं सान्द्रमेयं, घनञ्चोपरिविप्रसन्नं सान्द्रप्रसादमेह, शुक्लं शुक्रमेह, सशुक्रं शुक्रमेह, शिशिरं शीतमेहं शनैरिति शनैमेह, लालेवेति लालामेह, बालुकया युतमिति सिकता मेहं; दशैतान कफजान् प्रमेहान विद्यात् । लक्षणान्येषां निदाने प्रोक्तानि । अथ पित्तजान् षड़ाह - क्षारोपमित्यादि । क्षारोपमं क्षारमेह, कालं कालमे रक्तं लोहितमेह, हारिद्रमेह, माञ्जिष्ठमेहश्च, नीलं नीलमेहम्; इत्येतान् षट् पैत्तान् प्रमेहानुशन्ति । अथ वातजान चतुरः प्रमेहानाह - मज्जेत्यादि । मज्जमेहम्, ओजसा मधुमेहं वसयान्वितं वसामेह, लसीकया युतं हस्तिमे; चतुर्व्विधमनिलेन शेषेषु मज्जादिधातुष्ववकर्षितेषु मूत्रयते ॥७॥
गङ्गाधरः- वर्णमित्यादि । एषु सर्व्वेषु प्रमेहेषु यथादोषं वणरसस्पर्शगन्धा भवन्ति । कस्य दोषस्य वर्णो न मज्जमेहेषु दृश्यते इत्यत आह- श्यावारुण इत्यादि । वातकृतश्च वर्णः श्यावारुणः सशूलः, मज्जादीनां मज्जवसालसीकौजसां सद्गुण्यं समरूपतां यस्मादुपैति तस्मादसाध्यो भवति । न तु कफस्य वर्णों न वा पित्तस्य वणः मेदः प्रभृतिदूष्यसाद्गुण्यमेति तस्मान्नासाध्यः ॥ ८ ॥
स्फुटमनुसर्त्तव्यम् । घनञ्चोपरि विप्रसन्नमित्यनेन सान्द्रप्रसादमे हमाह । वातिको मज्जमेहः । ( ओजसा मधुमेहः ) । वसया वसामेहः । लसीकया इस्तिमेह इति ज्ञेयाः । शेषेष्विति जादिषु रसादियुक्तधातुव्यतिरिक्तेषु, अवकर्षितेषु इति क्षीणेषु । क्षयस्तेषां प्रहारम्भकेण वातेनैव उपोषणादिषु कर्षणाद्वा क्रियते ॥ ७ ॥
1
चक्रपाणि: - संक्षेपेण कफजादिप्रमेहलक्षणमाह - वर्णमित्यादि । तत्र कफजे श्वेतो वर्णो मधुरो रसः शीतस्पर्शः, आमश्च गन्धो भवति । एवं पित्तमेहेऽपि ज्ञेयाः । वायोस्त्वतिनिर्व्वर्णत्वेन प्राभाविकं कायवर्णनमाह - श्यावारुण इत्यादि । मज्जादिसाद्गुण्यं मज्ज
For Private and Personal Use Only