________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः ]
२६०६
चिकित्सितस्थानम् । स्वेदोऽङ्गन्धः शिथिलाङ्गता च शय्यासनस्वप्नसुखे रतिश्च । हृन्नेत्रजिह्वाश्रवणोपदेहो घनाङ्गता केशनखाभिवृद्धिः ॥ शीतप्रियत्वं गलतालुशोषो माधुर्य्यमास्ये करपाददाहः । भविष्यतो मेहगदस्य रूपं मूत्रेऽभिधावन्ति पिपीलिकाश्च ॥ ६ ॥ स्थूलः प्रमेही बलवानिकः कुशस्तथैकः परिदुब्र्बलश्च । संवृणं तत्र कृशस्य काय्यं संशोधनं दोषबलाधिकस्य ॥ १० ॥ स्निग्धस्य योगा विविधाः प्रयोज्याः कल्पोपदिष्टा मलशोधनाय । ऊर्द्ध तथाधश्च मलेऽपनीते मेहेषु सन्तर्पणमेव कार्य्यम् ॥ ११ ॥
गङ्गाधरः - अस्य पूव्वरूपमाह - स्वेदोऽङ्गगन्ध इत्यादि । शिथिलाङ्गता अङ्गशैथिल्यम् । शय्यादिषु सुखे रतिः सेवा । हृदादीनामुपदेह उपलेपः । घनाङ्गता स्थूलाङ्गता । केशनखानामभिवृद्धिः स्वभावतो दृद्धे रतिवृद्धिः ॥ ९ ॥
गङ्गाधरः- संक्षेपतो मेहस्य निदानदोषदृष्योपदेशपूर्वकं संप्राप्तिसंख्यानामतोऽनुरूपलिङ्गानि पूर्वरूपाण्युक्तत्वानन्तरमुपशयं वक्तुं चिकित्सितमाह - स्थूल इत्यादि । इह खलु प्रमेही पुरुषो द्विविधो भवति । तत्रैकः प्रमेही स्थूलो बलवान, तथैकोsपरः कृशः परिदुर्बलश्च भवति । तत्र कृशस्य दुब्बलस्य प्रमेहिणः संगृहणं सम्यक् पुष्टिकरं भेषजं कार्यम् । दोषबलाधिकस्य स्थूलस्य बलवतः प्रमेहिणः संशोधनं विरेचनादिकं कार्य्यम् ॥ १० ॥
गङ्गाधरः - ननु योगः कथं संशोधयेदित्यत आह- स्निग्धस्येत्यादि । स्निग्धस्येति न स्निग्धखिन्नस्य, मधुमेहिनां स्थूलानां पित्तमेहिनाञ्च स्वेदप्रतिषेधात् । स्निग्धस्यैव कल्पोपदिष्टाः कल्पस्थाने वक्ष्यमाणा वमन विरे
तथा
कादिसमानगुणतां याति । यद्यपि वातिको मेहोऽसाध्य एवोक्तस्तथापि पुनरिहासाध्यवचनेन य एव उत्पत्तितः प्रभूताकृतिः स एव श्यावारुणत्वादि सकलं लक्षणं बिभर्त्ति । यस्तूत्तरकालं चानुबद्धः स साध्यो भवति । तल मज्जादिसाद्गुण्यं नावश्यं भवतीति दर्शयति । किंवोत्तरकालमेव ये वातानुबन्धाः श्यावारुणवर्णादय उक्ता भवन्ति तेऽप्यसाध्या भवन्तीति । कफपित्तजा अपि मज्जादियोगादसाज्या एव उक्तम्- 'सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः । मधुमेहत्वमायान्ति तदासाध्या भवन्ति हि ॥ स्वेदोऽङ्गगन्ध इत्यादिना पूर्व्वरूपमाह ॥ ८१९ ॥ चक्रपाणिः - परिदुर्बलो हीनबलः । कृशस्य इति मांसकृशस्य, दोषबलाधिकय दोषेग बलेनाधिकस्य ॥ १० ॥
For Private and Personal Use Only