SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ट अध्यायः] चिकित्सितस्थानम्। २६०७ कफः सपित्तः पवनश्च दोषा मेदोऽस्त्रशुक्राम्बुवसालसीकाः। मज्जा रसौजः पिशितञ्च दृष्याः प्रमेहिणां विंशतिरेव मेहाः ॥ ६॥ जलोपमञ्चक्षुरसोपमं वा घनं घनश्चोपरिविप्रसन्नम्। शुक्ल सशुक्रशिशिरं शनैर्वा लालेव वा बालुकया युतं वा॥ उष्णादिसाध्यमिति । पित्तजाः षट् याप्याः संसृष्टदोषमेदःस्थानखात् । पित्तदोषे स्निग्धशीतादिक्रिया मेदोमांसशरीरजक्लेदशुक्रशोणितवसामज्जलसीकोजोरसानां दृष्याणां क्रियया रुक्षोष्णादिरूपया विषमक्रियखात्। पवनाचतुष्कः प्रमेहोऽसाध्यस्तथैव विरुद्धोपक्रमखात् महात्ययखाच्च। महात्ययखन्तु मेदःप्रभृतिधातुदुष्ट्यां सत्यां वसामजलसीकोजसां गम्भीरधातूनामत्यपकर्षकवात. जनितत्वेनाशुघातिखमिति यथाक्रमम् अन्वयः ॥५॥ गङ्गाधरः-एषु सर्वेषु प्रमेहेषु दोषदृष्याणां संग्रह सङ्ख्यासंग्रहश्च दर्शयतिकफ इत्यादि। सपित्त इत्यनेन पृथक् पृथक् प्रमेहकरखमेषां निरस्तम्। सर्वत्रव मेहेष्वेते त्रयो दोषा मेद प्रभृतयः पिशितान्ता दशैव दूष्याः। अत्राम्बु शरीरजः क्लेदः। विंशतिरेव न खधिका मेहा भवन्ति ॥६॥ गङ्गाधरः-कफजान दश प्रमेहान् नामतो लक्षणाथमाह-जलोपममित्यादि । दोषाणामुच्यत इत्याह-दोषो हीत्यादि। समक्रियत्वादिति कफस्य दोषस्य दृष्यस्य मैदाप्रभृतेः समानत्वात् कटुतिक्तादिक्रियायाः, विषमक्रियत्वादिति पित्तस्य संशमनादिचिकित्सायाः कटादिरूपाया विषमत्वात्, महात्ययत्वादिति मजादिगम्भीरधात्वपकर्षकत्वेन महाव्यापत्तिकर्तृत्वादाशुकारित्वाच्च। चकारान्निदानोक्तविषमक्रियत्वञ्च वातात्मकानां समुच्चिनोति । यथाक्रममिति यथासंख्यम् ॥१५॥ चक्रपाणि:-कफ इत्यादिना सर्वमेहाणां दोषदूष्यसंग्रहमाह । रसश्च ओजश्चेति रसौजा ओजसोऽपि मधुमेहे दूष्यत्वात्। यद्यपि मेदःप्रभृतयो दूष्या इह उच्यन्ते, तथापि पूर्वे मेदोमांसशरीरजक्लेदानामवश्यम्भावितया परिग्रहः, मजादयश्च सर्वमेहे पुनरवश्यं दृश्यन्ते स्तोकं वा दृष्टा भवन्ति । किंवा सर्वमेहाणामेव त्रिदोषजत्वं तथा सकलदूष्यत्वञ्च कफः सपित्त इत्यादिना ग्रन्थनोच्यते। मेदोमांसादीन्यत्यर्थदूष्योपदर्शनार्थ पृथगुक्तानि। यतः कियन्त:शिरसीये सकलमेहवाचकं मधुमेहं कथयता दोषत्रयप्रकोपोऽप्युक्तः। तथाहि -'समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः। दर्शयत्याकृतिं गत्वा क्षयमाप्यारयते पुनः।' इत्युक्तम्, तथा सुश्रुतोऽप्याह-'वातपित्तमेदोभिरन्वितः श्लेष्मा मेहान् जनयति ।' कफजादीनां झुल्बणादिसंसर्गस्थानन्त्येन प्रमेहसंख्याप्रसक्तिनिरासार्थमाह-विंशतिरेव मेहा इति ॥ ६ ॥ चक्रपाणिः-जलोपममित्यादिना दशभिः श्लेष्मगुणैः कृतान् दश प्रमेहानाह । एतच्च निदाने For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy