________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०६
चरक-संहिता। [ प्रमेहचिकित्सितम् मेदश्च मांसञ्च शरीरजश्च क्लेदं कफो वस्तिगतं प्रदूष्य । करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदृष्य चापि ॥ क्षीणेषु दोषेष्ववकूष्य वस्तौ धातून् प्रमेहान् कुरुतेऽनिलश्च । दोषो हि वस्तिं समुपेत्य मूत्रं संदृष्य मेहान् कुरुते यथास्वम् ॥४॥ साध्याः कफोत्था दश पित्तजाः षट् याप्या असाध्यः पवनाच्चतुष्कः। समक्रियत्वाद विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते॥५॥
गङ्गाधरः-तत्र हायनकयवकेत्यादिना कफप्रमेह निदानं यदुक्तं तथा दोषः श्लेष्मा दूष्याश्च बहुबद्धमेदःप्रभृतय इति तदनुसृत्य सम्पाप्तिमाह-मेदश्चेत्यादि। एभिरास्यासुखादिभिः प्रकुपितः कफो दोषो मेदो मांसं शरीरज क्लेदं चकारानिदानस्थाने व्याख्यातं शुक्रं शोणितं वसां मज्जानं लसीकां रसञ्चौज इति सर्व दृष्यं वस्तिगतं बहुबद्धं प्रदूष्य यथास्वं दशोदकमेहादीन् मेहान् करोति। पित्तश्चोष्णैर्निदानस्थाने व्याख्यातैरुष्णाम्ललवणेत्यादिभिः समुदीर्ण सत् तानेव मेदश्च मांसश्च शरीरजश्च क्लेदं शुक्रञ्च शोणितञ्च बसाञ्च सज्जानश्च लसीकाश्च रसञ्चौजश्चेति सर्वान् परिदृष्य षट् प्रमेहान् यथास्वं क्षारमेहादीन् पट् करोति । क्षीणेष्वित्यादि। वातोऽपि निदानस्थाने व्याख्याते तिप्रमेह निदानः कपायकटुतिक्तरुक्षलघुशोतेत्यादिभिः कुपितः सन् तानेव बहुमलिनमेदोमांसशरीरजक्लेदशुक्रशोणितवसामज्जलसीकोजोरसान् बद्धदृष्यान् अवकृष्य प्रमेहान् कुरुते। यतो दोषो वस्तिमुपेतान् दृष्यान संदृष्य यथास्वं मेहानुदकमेहादीन् दश षट् चतुरो मेहान् कुरुते ॥४॥
गङ्गाधरः-तत्र साध्यासाध्यत्वादीनाह-साध्या इत्यादि। कफोत्था दश प्रमेहाः साध्याः, प्रकृतिविकृतिभूतवात् समक्रियखाच । दोषो हि श्लेष्मा उष्णरुक्षादिसाध्यो, दूष्याश्च मेदोमांसादयो धातवोऽप्युष्णरुक्षादिसाध्या इति सपक्रियत्वम्। यद्यपि शोणितमपि दृष्यं नोष्णरुक्षादिसाध्यं तथापि विरुद्धगुणसमवाये भूयसाल्पमवजीयते इति मेदोमांसादिभूयःसहचरितत्वेन भवत्येव . चक्रपाणिः-मेदश्च मांसच्चेत्य नेन कफजादिमेहसम्प्राप्तिमाह। क्षीणेष्विति दोषेषु कफ.पित्तेषु, द्वयोश्च बहुवचनं व्यक्त्यपेक्षया इयम्। क्षीणेष्विति वृद्धवातापेक्षया क्षीणेषु, तेन वृद्धकफपित्ते यो वायुः लङ्घनादिना क्रमेण वृद्धो भवति स नेहासाध्यमेहचतुष्टयकरणे विवक्षित इति दर्शयति । अत्र चिकित्साविधानात् साध्यत्वमस्ति, यदुक्तं- 'या वातमेहान् प्रति पूर्वमुक्ता वातील्वणानां विहिता क्रिया सा। वायुर्हि मेहेज्वतिकर्षितानां कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता' इति। धातूनिति वसामजोजोलसीकाख्यान्। सर्वत संशमनं
For Private and Personal Use Only