________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः ।
अथातः प्रमेहचिकित्सितं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
निम्महमानानुशयो निराशः पुनर्व्वसुर्ज्ञानतपोविशालः । कालेऽग्निवेशाय सहेतुलिङ्गानुवाच मेहान् शमनञ्च तेषाम् ॥ २ ॥ श्रस्यासुखं खमसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि । नवान्नपानं गुड़ वैकृतञ्च प्रमेहहेतुः कफकुच्च सर्व्वम् ॥ ३ ॥
गङ्गाधरः - अथोद्देशानुक्रमेण गुल्मचिकित्सितानन्तरं प्रमेहचिकित्सितमाह - अथात इत्यादि । सर्व्वं पूर्व्ववद् व्याख्येयम् ॥ १ ॥
।
गङ्गाधरः - निम्महेत्यादि । अनुशयोऽनुवृत्तिः । मोहमानानुशयाभ्यां निर्गतः । निराशः आशातो निर्गतः आशाशून्य इत्यर्थः । ज्ञानतपसी विशाले यस्य । काले प्रश्नकाले ॥ २ ॥
गङ्गाधरः -- तत्र हेतुमाह - आस्येत्यादि । आस्या आस्यते उपविश्यते इत्यास्या, तत्र सुखं सुखेनास्या इत्यर्थः । स्वप्नमुखं सुखेन निद्रा । ग्राम्यश्च औदकञ्चानुपञ्च तानि मांसानि तेषां रसाः । पयसीति गव्यमाहिषादिदुग्धानि । नवानामन्नं भोजनं पानञ्चाथवा नवे चान्नपाने । गुड़वैकृतं गुड़कृतविकारः । सर्व्वं कफकुच्च द्रव्यम् । प्रमेहहेतुः कफममेह हेतुरित्यर्थः । केचित् तु एतेन सर्व्वप्रमेहेषु कफानुबन्धः ख्यापितः, सामान्येनेदं हुतं पूर्व्वं प्रमेहाणां निदानं त्रिदोषकोपकत्वात् तन्न निदानस्थाने हि त्रिदोषप्रकोपजाः सर्व्वे प्रमेहा उक्ताः पुनः श्लेष्माद्याधिक्येन श्लैष्पिकादिप्रमेहाणां प्रत्येकं निदानमुक्तम् ॥ ३ ॥
5
चक्रपाणिः - निदानोक्तसम्बन्धक्रमादेव गुल्मचिकित्सितादनु मेहचिकित्सितं समुच्यते । निर्गता मोहादयो यस्य स तथा, अनुशयः कोपः, निर्गता आशा यस्य स निराशः नीरागः । निदानोक्तमपि हेतुलिङ्गादि पुनः प्रकरणवशात् सकलमुच्यते । आस्थासुखमिति सुखजनिकास्या न दुःखजनिका । एवं स्वप्नसुखञ्च ज्ञेयम् । शय्यादिदोषेण दुःखस्वप्नं दुःखास्या च न प्रमेहहेतुः । गुडवैकृतच इत्यादिना कफजादिमेहहेतुः । कफजा एव मेहाः मेहत्वेनादावच्यन्ते ॥ १-३ ॥
३२७
For Private and Personal Use Only