________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०४
चरक-संहिता। [ गुल्मचिकित्सितम् हेतुर्लिङ्ग सिद्धिः क्रियाक्रमः साध्यता न च योगाश्च छ । गुल्मचिकित्सितसंग्रह एतावान् व्याहृतोऽग्निवेशस्य ॥ ११०॥ इत्यग्निवेशकुतै तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥
स्निग्धस्य च सर्व्वकर्माण्युक्तानि। पूर्व गुल्माना हेतुर्लिङ्गं प्रोक्तं ततः सक्रियाक्रममतः सिद्धमित्यादिना सिद्धः क्रियाक्रमः। सञ्चितः क्रमश इत्यादिना न साध्यता उक्ताः । योगाश्च उक्ताः ॥११० ॥
गङ्गाधरः-अध्यायं समापयति-अग्निवेशेत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ पष्ठस्कन्धे चिकित्सितस्थानजल्पे गुल्मचिकित्सितजल्पाख्या
पञ्चमी शाखा॥५॥
चक्रपाणिः-स्नेह इत्यादिना पुनः संक्षेपेण संग्रह करोति। साध्यतानुयोगाश्च एतेन प्रत्येक वातादिगुल्मचिकित्सिते संगृहीतेऽपि पुनः संक्षेपसंग्रहाभिधानेन संगृहीता ॥ ११० ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुव्वददीपिकायां चरफतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां गुल्मचिकित्सितं
नाम पञ्चमोऽध्यायः ॥५॥
* साध्यतानुयोगाश्च इत्यन्यत्र पठ्यते।
For Private and Personal Use Only