________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः]
चिकित्सितस्थानम्।
२६०३
तत्र श्लोकाः। स्नेहः स्वेदः सपिस्तिश्चर्णानि वृहणं गुड़िकाः। वमनविरेको मोनः चतजस्य च वातगुल्मवताम् ॥ सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रसनं निरूहाश्च । रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः॥ उपनाहनं सशस्त्रं पक्कस्याभ्यान्तरप्रभिन्नस्य। संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य ॥ स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च । सर्पिर्वस्तिर्गुड़िका चूर्णमरिष्टाश्च सक्षाराः॥ गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य । गुल्मस्य रोधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः ॥ यथानपानसेवा हेतूनां वर्जनं यथाखञ्च छ । नित्यञ्चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इति । स्नेहः स्वेद इत्यादि। क्षतजन्यशोणितस्य मोक्षः । प्रस्रसनं विरेचनम् । आश्वासनं समाश्वस्तं सपातिमित्यादिना आश्वासवचनम् । उपनाहनं प्रलेपनम् । स्नेह इत्यादि। उल्लेखनं वमनं कफनस्पति छेदः। अग्रे पूर्वमपनीतरक्तस्य विरिक्तीकृतरक्तस्य रोधिरस्य गुल्मस्य स्त्रीभवस्य क्रियाक्रमः उक्तः। अथ वातादिगुल्मेषु यथास्वं पथ्यानपानसेवा, यथास्वं हेतूनाश्च वर्जनम्। नित्यश्चाग्निसमाधिरित्येतत् आमान्वये पित्तगुल्मे इत्यादिना प्रोक्तम् । स्निग्धस्य भिषजा तु स्वेद इत्यादिना
* "पथ्यान" इति पाठः साधीयान् ।
For Private and Personal Use Only