________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| गुल्मचिकित्सितम्
२६०२
चरक-संहिता। प्रवर्त्तमाने रुधिरे दद्यान्मांसरसौदनम् । घृततैलेन साभ्यङ्ग पानार्थे तरुणां सुगम् ॥ १०८ । रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहरी क्रियाम् । कुर्याद वातरुगा याः सर्वा वातहरीः पुनः॥ घृततैलावसेकांश्च तित्तिरीश्चरणायुधान् । सुरां समण्डां पूर्वञ्च पानमम्लस्य सर्पिषः॥ प्रयोजयेदुत्तरं वा जीवनीयेन सर्पिषा। अतिप्रवृत्ते रुधिरे सतिक्तनानुवासनम् ॥ १०६ ॥
मदिराश्च पातु मत्स्यांश्च व्यञ्जनाय दद्यात्। अथवा दाशमूलिकं दशमूलकाथं गोदुग्धगोमूत्रयवक्षारयुक्तं कृखा मथिवा योनौ वस्तिं दद्यात्। एवं कृतेऽप्यदृश्यमानं चेत् रुधिरं तदा गुल्मप्रभेदनं यद्यद भेषजठुक्तं तत्तद दद्यात् ॥ १०५-१०७॥
गङ्गाधरः-प्रवत्तेमान इत्यादि। एवं हि प्रवर्त्तमाने रुधिरे मांसरसौदनं पथ्यं दद्यात्। घृततैलेन चाभ्यङ्गमभ्यङ्गञ्च दद्यात्। पानार्थ तरुणां नवां सुरां दद्यात् ।। १०८॥
गङ्गाधरः-रुधिरेऽतीत्यादि। एवं कृते यद्यतिप्रवत्तते रुधिरं तदा रक्तपित्तहरी क्रियां कुर्यात् । वातरोगश्चेद् भवति तदा वातहरीः सर्वाः क्रियाः कुर्यात् । घृतेत्यादि । अतिप्रत्ते रुधिरे। घृततैलाबसेकांश्च वातहरान् उक्तान् कुर्यात् । मांसार्थ तित्तिरीन चरणायुधान् कुक्कुटान् समण्डां सुरां प्रयोजयेत् । अम्लस्य सर्पिषश्च पानं पूर्व प्रयोजयेत्। तत उत्तरं जीवनीयेन जीवनीयदशककाथकल्काभ्यां सिद्धेन सापेषानुवासनं प्रयोजयेत्। एवं सतिक्तेन तिक्तकघृतेनानुवासनं प्रयोजयेदिति ॥ १०९ ॥
चक्रपाणिः-अम्लस्य सर्पिषः भोजनोत्तरकालपानम्। किंवोत्तरवस्तिः। जोवनी सर्वाितरक्ते वक्तव्यम्। सतिक्तेन तिक्तकघृतेनानुवासनमिति ॥ १०८-१०९ ॥
For Private and Personal Use Only