SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६६ चरक-संहिता। [गुल्मचिकित्सितम् यदुक्तं वातगुल्मघ्नं स्रसनं नीलिनीघृतम् । द्विगुणं तद् विरेकार्थं प्रयोज्यं कफगुल्मिनाम् ॥ ६४ ॥ सुधाक्षीरद्रवे चूर्ण त्रिवृतायाः सुभावितम्।। कार्षिकं मधुसर्पिा सुखं लीढ़ विरेचयेत् ॥६५॥ विरेचनम्। जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः। दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च ॥ अष्टभागावशेषन्तु रसं पूतमपि क्षिपेत् । दन्तीसमं गुड़पूतं दद्यात् तत्राभयाश्च ताः॥ तैलार्द्धकुड़वञ्चैव त्रिवृतायाश्चतुःपलम् । चूर्णितञ्चार्द्धपलिकं पिप्पलीविश्वभेषजम् ॥ गङ्गाधरः-यदुक्तमित्यादि। द्विगुणमिति मात्रया द्विगुण प्रयोज्यम् । द्विगुणं द्रव्यं वा तत्साधने प्रयोज्यम् ॥९४ ॥ गङ्गाधरः-सुधेत्यादि। सुधा स्नुही, तस्याः क्षीरस्य पिच्छिलभागं त्यक्त्वा यद द्रवं भवति तद्रपे द्रवे त्रितायाश्चर्ण कार्पिकं भावितं शुष्कं कार्षिकमिति पूञ्चयुगपुरुषाभिप्रायेण तेन यथावलकोष्ठं माषकद्वयादिकं मधुसर्पिा लीढं सुरवं विरेचयेत् ॥९५॥ विरेचनयोगः। - गङ्गाधरः-जलद्रोणे इत्यादि। अभया आकृतिमानात् पञ्चविंशतिः वस्त्रे पोटलीकृताः, दन्त्या दन्तीमूलस्य तावन्ति पञ्चविंशतिः पलानि, चित्रकस्य मूलानि च तथैव पञ्चविंशतिः पलानि, इत्येतत्रयं जलद्रोणे चतुःषष्टिशरावजले पचेत्। अष्टभागावशेषन्तु अष्टशरावकाथावशेषन्तु पूतं तत्र पूत रसे पूतं गुई पुराणं दन्तीसमं पञ्चविंशतिपलं क्षिपेत्, तेन काथेन गोलयिता पूतं कुर्यात् । ततः परं ताश्च पोटलीबद्ध खिन्नाः पञ्चविंशतिरभयाश्च तैलार्द्धकुड़वञ्चेति रक्तिकादिषु मानेषु यावन कुड़वो भवेत्। आद्रव्ये द्रवद्रव्ये न द्वैगुण्यं तथेष्यते। कुड़वेऽपि कचिद् द्वित्वं यथा दन्तीघृतादिषु इति वचनादत्राद्वगुण्यात् तिलतैलस्य चतुःष्पलं कटाहे दद्यात् भृष्ट्वा तत्र तत्काथं गुड़ मिश्रं तत्र दत्त्वा पचेत् लेहवत्पाके चक्रपाणिः-बिगुणमिति द्विपलप्रमाणं तत्र द्विपलं पेयमुक्तम्। तैलार्द्धकुढ़वमिति तैलं For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy