SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः] चिकित्सितस्थानम्। २५६५ त्रिवृतां त्रिफलां दन्ती दशमूलं पलोन्मितम् । जले चतुर्गुणे पक्त्वा चतुर्भागस्थितं रसम् ॥ सर्पिरेरण्डतैलञ्च क्षीरञ्चैकत्र साधयेत् । स सिद्धो मिश्रकस्नेहः सक्षौद्रः कफगुल्मनुत् ॥ कफवातविबन्धेषु कुष्ठप्नीहोदरेषु च। प्रयोज्यो मिश्रकस्नेहो योनिशलेषु चाधिकम् ॥ ३॥ इति मिश्रकस्नेहः। कल्कीभूतानि दत्त्वा गव्यक्षीरश्च प्रस्थं चतुःशरावं दत्त्वा जलं द्वादशशरावं दत्त्वा घृतपस्थं विपाचयेत्। तत् पक्कं सर्पिः कफात्मकगुल्मादिक हन्ति ॥९२॥ क्षीरषट्पलकं घृतं, पञ्चकोलघृतमित्यन्ये । __ गङ्गाधरः-त्रिवृतामित्यादि। पलोन्मितमिति क्लीवनिर्दिष्टं प्रयोगेन्त्यगतलिङ्गसङ्केत्र प्रयुञ्जीतेति दशमूललिङ्गं प्रयुक्तं, परन्तु त्रिवृतादिषु सर्वत्रैव लिङ्गविपरिणामेनान्वेतव्यं ; तेन त्रितादीनां पञ्चदशानां द्रव्याणां प्रत्येक पलमानं चतुगणे जले पष्टिपलजले पक्त्वा चतुर्भागकभागसंस्थितं पञ्चदशपल. शिष्टं स्थितं रसं काथं सर्पिश्च पञ्चदशपलम् एरण्डतैलश्च पञ्चदशपलं क्षीरश्च पञ्चदशपलम् । भागे ह्यनुक्ते समभागविधानात् । चखायंकल्कान्येकत्र पचेत् । स्नेहावशेषः सिद्धो मिश्रकस्नेहः । सपिरेरण्डतैलयोमेलनान्मिश्रकस्नेहः । शीतीकृतः सत्रौद्रः शीतेऽस्मिन् त्रिंशत्पले मिश्रकस्नेहे मधु पादिकं सार्द्धसप्तपलं प्रक्षिप्य मेलयेदित्यर्थः ॥९३॥ मिश्रकस्नेहः। ___ चक्रपाणिः-निवृतामित्यादौ पञ्चदश पलानि क्वाथ्यानि, तत्र चतुर्गुणं जलं देयं, पलोल्लेखविहितत्वात् पष्टिपलानि भवन्ति । क्षीरमपि साहचर्य्यात् पञ्चदशपलम् । एतदुभयद्वपादस्नेहोऽव वक्तव्यः। किंवा स्नेहसमक्षीरमिति वचनात् स्नेहसमेन क्षीरेण क्वाथेन च पञ्चदशपलेन द्रवेण पञ्चपलः स्नेहः द्रवपादिकः कर्त्तव्यः। जतूकर्णाभिप्रायात् तु उत्क्वाथ्य विवृतादिपञ्चपलात् प्रस्थ. मानोल्लेखने प्रस्थचतुष्टयं जलस्य देयम्। यतस्तेन सामान्येनैवोक्तं तिवृता-दन्ती-त्रिफला-दशमूल. समेनोरुवक तैलम्। सर्पिश्च शृतं पयसा सममुदावर्तशूलादौ ॥ ९३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy