________________
Shri Mahavir Jain Aradhana Kendra
२५६४
www.kobatirth.org
चरक संहिता |
[ गुल्मचिकित्सितम्
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् । साध्यं विदारिगन्धाद्यमापोथ्य सलिलादके ॥ पादशेषे रसे तस्मिन् पिप्पलीं नागरं वचाम् । विड़ङ्ग सैन्धवं हिङ्ग यावशूकं विडं शटीम ॥ चित्रकं मधुकं रास्त्रां पिष्ट्रा कर्षसमं भिषक् । प्रस्थञ्च पयसो दत्त्वा घृतप्रस्थं विपाचयेत् ॥ एतत् भल्लातकघृतं कफगुल्महरं परम् । प्लीहपाण्डू। मय श्वास- ग्रहणी रोगकासनुत् ॥ ६१ ॥ भल्लातकाद्यं घृतम् ।
पिप्पल्या
देयम् ॥ ९०-९२ ॥
-
Acharya Shri Kailassagarsuri Gyanmandir
पिप्पलीपिप्पलीमूल-चव्यचित्रकनागरैः । पलिकैः सयवक्षारैघृतप्रस्थं विपाचयेत् ॥ चीरप्रस्थेन तत् सर्पिर्हन्ति गुल्मं कफात्मकम् । ग्रहणी पाण्डुरोगघ्नं प्रीहकासज्वरापहम् ॥ ६२ ॥
क्षीरषट्पलकं घृतम् । घृतमस्थं पचदित्यर्थः । पक्त्वा तत्र घृते व्योषक्षारलवणघृतभृष्टहिविः लवणदाड़िमफलत्वकचूर्णानि घृतात् पादिकानि प्रक्षिप्य मेलयेदिति बोध्यम् ॥ ९० ॥ दशमूलीघृतम् । गङ्गाधरः- भल्लातकानामित्यादि । सुपक्कभल्लातकफलानां द्विपलं विदारिगन्धाद्यं पञ्चमूलं प्रत्येकं पलोन्मितं मिलिला सप्तपलमापोथ्य सलिलाढके षोड़शशराजले साध्यम् । पादशेषे चतुःशरावमितेऽवशिष्टे तस्मिन् रसे काथे 'सतिपिप्पल्यादीनि रास्नान्तानि द्वादश द्रव्याणि प्रत्येकं कर्षसम्मितानि पिट्ा कल्कीकृत्य पयसः प्रस्थं चतुःशरावञ्च दत्त्वा घृतप्रस्थं चतुःशरावं घृतं `'विपाचयेत् ॥ ९१ ॥ भल्लातकाद्यं घृतम् । गङ्गाधरः - पिप्पलीत्यादि । पिप्पल्यादीनि पञ्च यवक्षारञ्चेति षट् द्रव्याणि पलिकैः प्रत्येकमेषां पलं तेन चैतानि षट् मिलित्वा षट्पलिकानि पट्पलघृत समेनैव श्रवणीयम् । तथैववचनादव त्रिगुणं जलं
For Private and Personal Use Only