________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
चिकित्सितस्थानम् ।
परिवेश्य प्रदीप्तांस्तु वल्वजानथवा कुशान् । भिषक् कुम्भे समावाप्य गुल्मं घटमुखे न्यसेत् ॥ स गृहीतो यदा गुल्मस्तदा घटमथोद्धरेत् । वस्त्रान्तरं ततः कृत्वा छिन्याद गुल्मं प्रमाणवित् ॥ विमार्गजं यदा पश्येद् यथालाभं प्रपीडयेत् । मृद्गीयाद गुल्ममेवैकं न त्वत्र हृदयं स्पृशेत् ॥ ८८ ॥ तिलैरण्डात सीवीज - सर्षपैः परिलिप्य च । श्लेष्म गुल्ममयः पात्रः सुखोष्णैः स्वेदयेद् भिषक् ॥ ८६ ॥ सव्योषचारलवणं दशमूलीभृतं घृतम् ।
1
कफगुल्मं जयत्याशु सहिङ्गविड़दाड़िमम् ॥ ६० ॥
For Private and Personal Use Only
२५६१
इति दशमूली घृतम् । गुल्म सति परिवेश्य गुल्मिनं पुमांसमुपविष्टं कृत्वा कुम्भे घटमध्ये प्रदीप्तान् वल्वजान् उल्वाकतृणानि अथवा कुशान् वह्निना ज्वालयित्वा समावाप्य क्षिप्वा तटमुरखे गुल्मं न्यस्येत्, तद्वेगेन गुल्मो घटेनाकृष्य गृहीतो यदा भवति तदा घटमुद्धरेत् । ततोऽनन्तरं तमुत्थापितं गुल्मं वस्त्रान्तरं वस्त्रेण वद्धाभ्यन्तरे गतं कृत्वा प्रमाणविद् भव शस्त्रेण छिन्द्यात् । यदा विमार्गजं पश्येत् तदा तं छिन्न यथालाभं यावन्मात्रं गुल्मं हस्तेन लभते तावन्मात्रं गुल्मं प्रपीडयेत् प्रपीड़नलब्धञ्चैकमेव गुल्मं मृद्गीयात् । अत्र महनकाले तु न हृदयं स्पृशेत् प्राणायतनत्वात् ॥ ८८ ॥
गङ्गाधरः - स्वेदार्थं योगमाह - तिलेत्यादि । तिलादीनां त्रयाणां वीजानि सर्षपाणि च पेषयित्वा गुल्मोपरि परिलिप्य सुखोष्णैरयः पात्रैलौ हमयपिण्डादिभिः श्लेष्मगुल्मं स्वेदयेत् ॥ ८९ ॥
गङ्गाधरः- कफगुल्मिनः स्नेहनार्थं स्नेहमाह - सव्योषेत्यादि । दशमूलीमृतमिति दशमूलैः कल्कीभूतघृतात् पादिकञ्चतुर्गुणे च दशमूलकाथे घटमन्थनयन्त्रेण सम्यग्गृहीत्वा प्रपीडयेद् भिन्द्यादिति योजना | अल हृदयस्य त्यागः स्फुटनादिभयात् ॥ ८६–८९॥
चक्रपाणिः सव्योषेत्यादि । दशमूलस्य क्वाथ व्योषादीनां शेषाणां कल्कैः साधितं ● छिन्यात् इत्यव भिन्द्यात् इति चक्रः ।