SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५९२ - चरक-संहिता। | गुल्मचिकित्सितम् शालयो जाङ्गलं मांसं गव्याज्ये पयसी घृतम् । खजरामलकं द्राक्षां दाडिमं सपरूषकम् ॥ आहारार्थ प्रयोक्तव्यं पानाथं सलिलं शृतम्। बलाविदारिगन्धादयः पित्तगुल्मं चिकित्सितम्॥ आमान्वये पित्तगुल्मे सामे वा कफवातिके। यवागूभिः खडैषैः संधुक्ष्योऽग्निलिखिते ॥८६॥ शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितो। तस्मादग्निं सदा रक्षेन्निदानानि च वर्जयेत् ॥ ८७॥ वमनं वमनायि प्रदद्यात् कफगुल्मिने। स्निग्धखिन्नशरीराय गुल्मे शैथिलामागते॥ - गङ्गाधरः-शालय इत्यादि। गव्याज्ये पयसी गव्यं पय आज्यमाजश्च पयः। घृतन्तु गव्यमेवानुक्तखात् । सलिलं शृतमित्यद्धशिष्ट बलाविदारीगन्धादिभिः षभिः पक्कमित्यथः । अत्रामावस्थायां यत् कार्यमादौ तदाह--आमान्वये इत्यादि। आमान्वये सामे पित्तगुल्मे सति । कफवातिके गुल्मे विलविते । पूर्व लङ्घनमाचरेत्। सम्यक् लडितलक्षणोदये सति गुल्महरद्रव्यसिद्धाभिः यवागूभिः खडैश्च यषः अग्निगुल्मिनां जाठरोऽग्निः सन्धुक्ष्यः उद्दीपनीयः काय्यः॥८६॥ - गङ्गाधरः-ननु कस्मादित्यत आह-शमप्रकोपावित्यादि। यस्माद् दोषाणां शमप्रकोपौ अग्निसंश्रितो जाठराग्नेवलाधिक्ये सति सर्चदोषाणां शमः स्याद् बलाल्पत्वे तु प्रकोपः स्यादिति, तस्माद्धेतोः सदाग्नि जाठराग्निं रक्षेत् निदानानि च सदा वज्जयेत्। इति पित्तगुल्मप्रतिक्रिया ॥८७॥ गङ्गाधरः-अथ कफगुल्मे वमनमित्यादि। वमनार्हाय दौर्बल्यादिरहिताय मन्दोऽग्निवदना मन्दैत्यादिलक्षणान्विताय कफगुल्मिने स्निग्धस्विनशरीराय वमनं प्रदद्यात् । वमनेन तथा पुनः स्नेहस्वेदाभ्याञ्च शैथिल्यमागते प्राप्ते कफ चक्रपाणिः-शैथिल्यमागत इति शिथिल्दोषतया शस्त्रनिर्यिदोषभूते। घटमुखे न्यसेत् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy