SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः] चिकित्सितस्थानम् । २५६१ पिबेदुपरि तस्योष्णं क्षीरमेव यथावलम्। तेन निह तदोषस्य गुल्मः शाम्यति पैत्तिकः॥२॥ इति त्रायमाणायोगः। द्राक्षाभयारसं गुल्मे पैत्तिके सगुड़ पिबेत् । लिह्यात् कम्पिल्लकं वापि विरेकार्थं मधुद्रवम् ॥३॥ दाहप्रशमनोऽभ्यङ्गः सर्पिषा पित्तगुल्मिनाम् । चन्दनादन तैलेन तैलेन मधुकस्य वा ॥४॥ ये च पित्तज्वरार्तानां ® सतिताः क्षीरवस्तयः । हितास्ते पित्तगुल्मिभ्यो वक्ष्यन्ते ये च सिद्धिषु ॥८५ ॥ गालितं क्षीरसमम् एकशरावदुग्धमिश्रितं कोष्णमेव पिबेत्। तदुपरि च यथाबलमुष्णमेव क्षीरं पिबेत्। तेन योगेन विरेचनानिहतदोषस्य पुंसः पैत्तिकगुल्मः शाम्यति ॥८२॥ त्रायमाणायोगः। गङ्गाधरः-द्राक्षेत्यादि । द्राक्षाभययोः काथः । गुड़ः प्रक्षेप्यः। लिह्यादिति मधु द्रवं यत्र तत् कम्पिल्लनं लिह्यात् मधुना कम्पिल्लकचूर्ण कोष्ठानुरूपं लिह्यात् ॥ ८३॥ . गङ्गाधरः-दाहेत्यादि। सर्पिषा अभ्यङ्गः, चन्दनाय न ज्वरोक्तंन तैलेन, मधुकस्य यष्टीमधुनः काथकल्काभ्यां सिद्धेन तैलेन वाभ्यङ्गः दाहप्रशमनः ॥४॥ गङ्गाधरः-ये चेत्यादि। पित्तज्वरा नामुक्ता ये सतिक्ताः क्षीरवस्तयस्ते पित्तगुल्मिभ्यो हिताः, ये च सतिक्ताः क्षीरवस्तयोऽत ऊर्द्ध सिद्धिस्थाने वक्ष्यन्ते तेऽपि पित्तगुल्मिभ्यो हिताः॥८५॥ प्रयोगान्तरत्वाद् रक्तपित्तोक्तवासाघृतातिदेशो न कृतः । क्षौद्रसंयुक्तमित्यनेन प्रक्षेपन्यायात् पादिकरवं मधुनः। यथावलमिति यथा विरेचनातियोगो न भवति ॥ ०१ । ८२ ॥ चक्रपाणिः--कम्पिल्लकं गुण्डारोचनिकाम्। तैलेन मधुकसाधितेन । पित्तज्वरहरा इत्यादौ यद्यपि पित्तज्वरहरत्वेन साक्षाद वस्तयो नोक्तास्तथापि पटोलादय एव वस्तय उपयुक्तास्ता एव पित्तज्वरहरा भवन्तीति कृत्वेहोक्तं पित्तज्वरहरा इति। किंवा पित्तहरा ये तन्त्र सिद्धौ च वक्तव्यास्ते ज्वरहराः पटोलादयो ज्ञेयाः॥८३-८५॥ * पित्तज्वरहराः इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy