________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
म अध्यायः
चिकित्सितस्थानम् |
हितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम् । समण्डवारुणीपानं पक्वं वा धान्यकैर्जलम् ॥ ७३॥ मन्दे वर्द्धते गुल्मो दीप्ते चाग्नी प्रशाम्यति । तस्मान्ना नातिसौहित्यं कुर्य्यान्नातिविलङ्घनम् ॥ ७४ ॥ सर्व्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते । या क्रिया क्रियते सिद्धिं सा याति न विरुचिते ॥ ७५ ॥ भिषगात्यकिं बुद्धा पित्तगुल्ममुपाचरेत् । वैरेचनिकसिद्धेन सर्पिषा पयसापि वा ॥ ७६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५८७
मांसार्थाः । शालयो हमन्तिकधान्यानि । द्रवमित्यनतिसान्द्रम् । समण्डेत्यादि । वारुणी मण्डसहितैव वारुणी पानम्, न तु मण्डहीना वारुणीति । धान्यकैः पक्कं जलं वा पानम् । पीयते यत् तत् पानम् । दीपनार्थमिति शेषः ॥ ७३ ॥
गङ्गाधरः- कस्मात् तच्च भुञ्जीत पिबेच्चेत्यत आह - मन्देनावित्यादि । मान्मन्दं गुल्म वर्द्धते दीप्ते चानौ प्रशाम्यति, तस्मान्ना गुल्मी पुमान् अतिसौहित्यं न कुर्य्यादतिशयेनोदरं पूरयित्वा न भुञ्जीत अतिलङ्घनं च न कुर्य्यात् ॥ ७४ ॥
2
गङ्गाधरः- सर्व्वत्रेत्यादि । सव्वस्मिन् गुल्मे या क्रिया सिद्धिं याति, गुल्मप्रशपायामोघा भवति सा न विरुक्षिते स्नेहस्वेदाभ्यामनुपपादिते तु न सिद्धिं याति । पित्तरक्तगुल्मयोस्तु स्वेदो नो युक्त इत्यत उक्तं न विरुक्षिते इति । पित्तरक्ताभ्यामन्यत्रादौ स्नेहः स्वेदश्च कार्य्यस्ततः परं क्रियान्तरम् ।। ७५ ।।
For Private and Personal Use Only
गङ्गाधरः- पित्ते तु गुल्मे पूर्व्वं स्नेहः कार्य्यस्तत्र यदि गुल्ममात्ययिकमापातत एवात्ययं कुर्य्यात् स्नेह क्रियाकालो न अतिसहते, तदा किं काय्यमित्यत आह- भिषगित्यादि । पित्तगुल्ममात्ययिकं बुद्धा स्नेहनार्थं विरेचनार्थश्च वैरेचनिक सिद्धेन भेषजचतुष्कोक्तवैरेचनीयद्रव्यः कल्ककार्थैः सिद्धेन पक्वेन सर्पिषा कल्करूपैस्तैः सिद्धेन पयसा वा भिषगुपाचरेत् ॥ ७६ ॥
चक्रपाणि: - कुक्कुटा इत्यादिना गुल्मिनेऽन्नपानं विधीयते । अतिसौहित्यमतिलङ्घनञ्चोभयोः