________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८६
चरक संहिता |
नीलिनीं त्रिफलां रास्त्रां बलां कटुकरोहिणीम् ।
पचेद् विड़ङ्गं व्याघ्रीञ्च पलिकानि जलाढ़के ॥ तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । दध्नः प्रस्थेन संयोज्य सुधातीरपलेन च ॥ ततो घृतपलं दद्याद् यवागूमण्डमिश्रितम् । जीर्णे सम्यग्विरिक्तञ्च भोजयेद् रसभोजनम् ॥ गुल्मकुष्ठोदर व्यङ्ग- शोथपाण्ड्रामयज्वरान् । श्वित्रं प्रीहानमुन्मादं घृतमेतद् व्यपोहति ॥ ७२ ॥ इति नीलिन्याद्य ं घृतम् | कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्त्तकाः । शालयो मदिरा सर्पिर्वात गुल्मचिकित्सितम् ॥
[ गुल्मचिकित्सितम
गङ्गाधरः — नीलिनीमित्यादिकं पचेत् । कियन्मानमेषां कियन्मात्रे जले पचेदित्यत आह-पलिकानीति । नीलिन्यादीनां नवानां प्रत्येकमेकैकपलम् इति नव पलिकानि जलाढ़ के षोड़शशराजले पचेत् । तेन काथेन पादावशेषेण चतुः शरावशिष्टेन दनः प्रस्थेन चतुःशरावेण सुधाक्षीरपलेन स्नुहीक्षीरस्य पलेन घृतप्रस्थमकल्कं पचेत् । पकस्य चास्य घृतस्य पलं यवाग्वा वा मण्डेन वा मिश्रितं जीर्णे पूर्व्वाहारस्य जीर्णतायां सत्यामर्थात् प्रातःकाले दद्यात् । रसभोजनं वक्ष्यमाणवातगुल्महितमांसरसेन भोजनमन्नं भोजयेत् ।
नीलिन्याद्य ं घृतम् ॥ ७२ ॥
गङ्गाधरः - वातगुल्म हितभोजनमाह- कुक्कुटा इत्यादि । वर्त्तकान्ता जन्तवो
For Private and Personal Use Only
घृतं देयम् । नीलिनीमित्यादौ कल्को न श्रूयते । कल्काभावेन च पाकज्ञानं नास्ति । पाकस्य हि मृदादिना त्रैविध्यमुक्तम् । तदपि कल्कानभिधानेऽपि पाकज्ञानार्थमपि कल्को देयः । स च क्वाथद्रव्यैरेव योग्यतया सान्निध्याच्च देयमिति वदन्ति । मैवं विचितत्वाद् घृतादिसाधनशक्तेः । यथोक्त यथोक्तमेव परं ज्ञेयम्, न स्वनुक्तं कल्पनीयम् । कल्पनायाञ्च युक्तिर्नास्त्येव । भतो विनापि कल्कदानं काथादिद्रवेण स्नेहपाको भवत्येव । न च कल्कमात्रेण स्नेहपाकज्ञानस्योक्तत्वात् । तस्मादाचाय्र्येण यथोक्तं तथैव कार्य्यम् । अत विरिक्तस्य पेयादिक्रम मौत्सर्गिकं बाधयित्वा रसभोजनं प्रयोगसामान्यात् उच्यते । यथोदावर्त्तिनो घृतविश्तिस्य काशिकाकोद्रवान्नभोजनम् ॥ ६९- ७२ ॥