________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पानवाया
चिकित्सितस्थानम्।
२५८५ तस्मादभीक्षणशो गुल्मा निरूहैः सानुवासनः। प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः ॥६६॥ गुल्मघ्ना विविधा दृष्टाः सिद्धाः सिद्धिषु वस्तयः। गुल्मन्नानि च तैलानि वक्ष्यन्तै वातरोगिके॥ तानि मारुतजे गुल्मे पानाभ्यङ्गानुवासनैः। प्रयुक्तान्याशु सिध्यन्ति तैलं ह्यनिलजित् परम् ॥७॥ नीलिनीचूर्णसंयुक्तं पूर्वोक्तं घृतमेव च। समलाय प्रदातव्यं शोधनं वातगल्मिने ॥ नीलिनीत्रिवृतादन्ती-पथ्याकम्पिल्लकैः सह ।
शोधनार्थं घृतं देयं सविक्षारनागरम् ॥ ७१॥ स्वस्थाने वातस्थाने पक्काशये मारुतं जिला सद्यो गुल्ममपोह ति, तस्मात् सानुवासननिरूहः अभुक्तवते निरूहं दत्त्वा भुक्तवतेऽनुवासनं दद्यादित्येवम् अभीक्ष्णशः प्रत्यहं प्रयुज्यमानैर्वाताद्यात्मका गुल्माः प्रशाम्यन्ति ॥ ६८ । ६९ ॥
गङ्गाधरः-ननु के च ते वस्तय इत्यत आह-गुल्मन्ना इत्यादि। सिद्धिस्थानेषु वक्ष्यमाणाः सिद्धा गुल्मन्ना वस्तयो दृष्टाः। वातरोगिके वातव्याधिचिकित्सितेऽध्याये गुल्मघ्नानि तैलानि वक्ष्यन्ते, तानि तैलानि सिध्यन्ति वातगुल्मं नाशयिता कृतकृत्यानि भवन्ति ॥७॥
गङ्गाधरः-नीलिनीत्यादि। पूवोक्तं घृतं ऋषणायघृतादिकं समलाय पुरीपादिमलयुक्ताय वातगुल्मिने शोधनं विरेचनम्।
नीलिनीत्रितेत्यादि। घृतं पूर्वोक्तं ऋषणाद्यादिकं नीलिन्यादिचूर्णैः सह विडयवक्षारशुण्ठीचूर्णेश्च सह मिश्रयिखा शोधनार्थ देयम् । नीलिनीत्यादिना शोधनार्थ घृतम् ॥१॥
चक्रपाणि:-आशु सिध्यन्तीति शीघ्र गुल्मं जयन्ति । तस हेतुमाह-तैलं घनिलजित् परम् । पमात् तैलं वातजित् तस्माद् वातगुल्मं वातविकारं शीघ्रं जयति । भन्ये तु तैलन्स्वनिलजित्वरं मीसिनीपूर्ण संयुक्त समलाय दातव्यम्, तथा पूर्वोक्तञ्च त्रूषणाय नीलिनीचूर्णसंयुक्तं दातव्यमिति योजयन्ति। प्रथमध्याख्याने तु घृतमेवेतिशब्दो वक्ष्यमाणनीलिनीलिवृतेस्यायलद्रव्ये सिं
For Private and Personal Use Only