________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५८०
चरक-संहिता। गुल्मचिकित्सितम् पिप्पल्याः पिचुरध्यो दाडिमाद् द्विपलं पलम् । धान्यात् प्रस्थं घृताच्छुण्ठाः कषः क्षीरं चतुगुणम् ॥ सिद्धमेतैघृतं सद्यो वातगुल्म चिकित्सति। योनिशूलं शिरःशूलमशीसि विषमज्वरम् ॥ ५५ ॥
पिप्पल्याद्य घृतम् । घृतानामौषधगणा य एते परिकीर्तिताः । ते चूर्णयोगा वय॑स्ताः कषायास्ते च गुल्मिनाम् ॥ ५६ ॥ कोलदाडिमघाम्बु-सुरामण्डाम्लकाञ्जिकः। शृलानाहनुदः पेया वीजपररसेन च ॥ ५७ ॥
गङ्गाधरः-पिप्पल्या इत्यादि। पिप्पल्या अध्यौर्धाधिकः पिचुः कषः सार्द्धकर्ष इत्यथः । दाडिमात् फलखचो द्विपलम्। धान्यकात् पलम् । घृतात् प्रस्थम् । शुण्ठ्याः कषेः। क्षीरं घृताचतुगणम् । पिप्पलीदाडिमधन्याकशुण्ठ्यः कल्काः । पिप्पल्याद्यघृतम् ॥ ५५॥ ___ गङ्गाधरः-घृतानामित्यादि। ऋषणादयो ये ये घृतानामौषधगणा एकैकयोगतया उक्तास्ते त एव एकैकयोगतया चर्णीकृत्य योगा वीकृत्य च योगाः काथकषायविधिनापि योगा बोध्याः॥५६॥
गङ्गाधरः–कोलेत्यादि। शुष्कबदरस्य काथेन कल्केन पेया, दाडिम रसेन द्वितीया पेया, घाम्बुना ग्रेष्मिकाम्बुणा वा पेया। पेया तूष्णैव पातव्या इत्यर्थः । सुरामण्डसिद्धा वा पेया, अम्लकाञ्जिकसिद्धा वा पेया। इत्येताः पेयाः शूलानाहनुदः। वीजपूरकस्य मातुलुङ्गस्य रसेन वा सिद्धा पेया तथा । षट् पेयाः॥५७॥
चक्रपाणि:-पिचुः कर्षः। तेनाध्यपिचुरिति सार्द्धः। अत्र च घृते कल्कमयस्त्वं भवपि कल्पनीयम् वचनादेव। उक्तं हि न्यायविधिः-"निर्देशः श्रूयते तव द्रव्याणां यत्र यादृशः। तस्मिन् स संविधातव्यः शब्दाभावे प्रसिद्रितः॥" अन पुनघृतं सिद्धमिति । पिप्पल्यादीनां लेहरवेन प्रयोगनिरासार्थम् । घृतसाधनार्थमुक्तम् ॥ ५५/५६ ॥
पक्रपाणिः-भेषजानां चूर्णादिष्वपि प्रयोगमाह-घृतानामित्यादि। वर्तिरिति फलवत्तिः ।
For Private and Personal Use Only