________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पम अध्यायः ]
चिकित्सितस्थानम् ।
शटोवचाजगन्धैला - सुरसैश्च विपाचितम् । शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ॥ ५३ ॥
हिङ्ग सोवच्चेला
Acharya Shri Kailassagarsuri Gyanmandir
हवुषाव्योषवृश्चीर - चव्यचित्रक सैन्धवैः । साजाजोपिप्पलीमूल-दोप्यकैर्विपचेद् घृतम् ॥ मातुलुङ्गदधिचीर- कोलमूलकदाड़िमैः । रसैश्च वातगुल्मघ्नं शूलानाहविमोक्षणम् ॥ योन्यशग्रहणीदोष - कासश्वासारुचिज्वरान् । वस्तिहृत् पाश्वशूलञ्च घृतमेतद् व्यपोहति ॥ ५४ ॥
हषाद्यं घृतम् ।
२५७६
सर्पिः ।
गङ्गाधरः - हिङ्गित्यादि । वेतसमम्लवेतसम् | अजगन्धा यमानी । सुरसः sdayर्णासः । एते कल्काः दना चतुर्गुणेन सर्पिः विपाचितम् । हिङ्गसौवच्चालाद्यं घृतम् ॥ ५३ ॥
गङ्गाधरः- हवुषेत्यादि । हनुषा स्वनामख्याता । वृश्वीरं श्वेतपुननवा । अजाजी जीरकम् । दीप्यकं यमानी । दीप्यकान्तैः कल्कैः मातुलुङ्गरसafi क्षीर- शुष्कवदरकाथ - शुष्कमूलक- काथ- दाड़िमफलरसैः प्रत्येकं घृतसमैघृतं पिवेत् । हवपाद्यं घृतम् ॥ ५४ ॥
For Private and Personal Use Only
स्वरसादिभिरपि क्षीरार्थो व्याख्येयः । हिङ्गाद्यैरिति हिङ्गादीनां कल्कः, दधि चतुर्गुणं 1
द्रवम् ॥ ५२/५३ ॥
चक्रपाणिः - हवषादिकल्कः मातुलुङ्गादीनि पञ्च द्रवाणि स्नेहसमानि । "पञ्चप्रभृति यत्र 'वाणि स्नेहसंविधौ । तत्र स्नेहसमानि" इति वचनात् दाडिमस्यापि रसान्तरसान्निध्याद् द्रव एव ग्राह्यः । उक्तं हि विश्वामित्रे—' पृथ्वी काजीरक व्योष - हपुषाजाजिसैन्धवैः । सचन्यपिप्पलीमूलैर्वह्निदीप्यकसंयुतैः । मूलदाडिमकीलानां रसे दक्षि पयस्यपि । सिद्धं घृतं जयेद गुल्मं सन्दीपनं परम् ॥” इति ॥ ५४ ॥