________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः चिकित्सितस्थानम्।
चूर्णानि मातुलुङ्गस्य भावितानि रसेन वा। कुर्याद वर्तीः सगुड़िका गुल्मानाहार्त्तिशान्तये ॥ १८ ॥ हिङ्गु त्रिकटुकं पाठां हवुषामभयां शटीम् । अजमोदाजगन्धे च तिन्तिडीकाम्लवेतसौ॥ .. दाडिमं पुष्करं धान्यमजाजी चित्रकं वचाम् । द्वौ क्षारौ लवणे द्वे च चव्यञ्चैकत्र चूर्णयेत् ॥ चूर्णमेतत् प्रयोक्तव्यमनुपानेष्वनत्ययम् । प्रागभक्तमथवा पेयं मदोनोष्णोदकेन वा । पार्श्वहृद्वस्तिशूलेषु गुल्मे वातकफात्मके। भानाहे मूत्रकृच्छ्रे च गुदयोनिरुजासु च ॥ ग्रहण्यशोविकारेषु प्लीह्रि पाण्डामयेऽरुचौ। उरोविबन्धे हिकायां कासे श्वासे गलग्रहे ॥ भावितं मातुलुङ्गस्य चूर्णमेतद रसेन च। बहुशो गुड़िकाः कार्याः कार्मुकाः स्युस्ततोऽधिकम् ॥५६॥
हिङ्गादि चर्ण गुड़िका च। गङ्गाधरः-ननु वताः कथं कार्या इत्यत आह-चूर्णानीत्यादि। उक्तानां ऋषणादीनां योगानां चर्णानि मातुलुङ्गरसेन भावितानि वर्तीः कुर्यात् । सा गुड़िका गुल्मादिशान्तये स्यात् ॥ ५८॥
गङ्गाधरः-हिङ्गित्यादि। हनुषा स्वनामख्याता। अजमोदा यमानी। अजगन्धा वनयमानी। तिन्तिडीफलं पकम् । दाडिमं फलखक । वे लवणे सौवच्चलसैन्धवे। चणेप्रयोगमिमं मातुलुङ्गस्य रसेन भावितं कुखा बहुशोगुड़िकाश्च कार्यास्ततश्वर्णरूपप्रयोगादधिककाम्मुकाः कर्मकाय्यः स्युः। हिङ्गादिचर्णगुड़िके ॥ ५९॥ उक्तद्रव्याणां चूर्णत्वे कृतेऽनुपानार्थ चूर्णद्रन्यमाह-चूर्णमित्यादि। कषायकरणपक्षे विशेषविधानानुक्के: सामान्यविधिनैव कषायकरणं ज्ञेयम् ॥ ५॥५८ ॥
चक्रपाणिः-हिङ्गादौ अजम्मेदादीनि ख्यातानि। द्वौ भारी सर्जिकायावकी। प्राग्भक्तमिति भोजनस्य प्राक् । वयःपरिमाणेन वा न वा भोजनात् प्रत्यासन भवति । बहुश इति सप्ताहं भावनायां, सप्ताहं भावनेति वचनात् । कार्मुका इति कर्मणि समर्थाः ॥ ५९॥ .
३२४
For Private and Personal Use Only