________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
चिकित्सितस्थानम् ।
श्लैष्मिकः कृतमूलत्वाद गुल्मो यस्य न शाम्यति । तस्य दाहो हृते रक्त शर लोहादिभिर्हितः ॥ ४६ ॥ तैक्ष्ण्यादौष्ण्याच्च शमयेदग्निर्गुल्मे कफानिलौ । तयोः शमाच्च संघातो गुल्मस्य विनिवर्त्तते ॥ ४७ ॥ दा धान्वन्तरीयाणामत्रापि भिषजां बलम् । चारप्रयोगे भिषजां चारतन्त्रविदां बलम् ॥ ४८ ॥ व्यामिश्रदोषे व्यामिश्र एष एव क्रियाक्रमः । सन्निपातोद्भवे गुल्मे त्रिदोषघ्नो विधिर्मतः । सिद्धानतः प्रवक्ष्यामि योगान् गुल्मनिवर्हणान् ॥ ४६ ॥
For Private and Personal Use Only
२५७७
गुल्मो न शाम्यति तस्य रक्ते हृते सति शरलोहादिभिः लोहशलाकादिभि दाहो हितः ॥ ४६ ॥
गङ्गाधरः- कस्माद् दाहः कफगुल्मं शमयतीत्यत आह-तक्ष्ण्यादित्यादि । तयोरिति कफानिलयोः ॥ ४७ ॥
गङ्गाधरः– दाह इत्यादि । अग्निना दाहे धान्वन्तरीयाणां भिषजां बलम् । क्षारप्रयोगे क्षारतन्त्रं ये विदन्ति तेषामेव बलं सामर्थ्य कम्मकरण । इति कफगुल्मक्रियाक्रमः ।। ४८ ॥
गङ्गाधरः - व्यामिश्रदोषे इत्यादि । यद्दोषोऽनुबन्धानुबन्ध्याभ्यां व्यामिश्र लक्षणो द्विदोषत्रिदोषलक्षणो गुल्मस्तदोषहरतया यः क्रियाक्रमस्तत्र द्वयोः त्रयाणाञ्च मिश्रीभावात् क्रियाक्रमो हितः । द्वन्द्वसनिपातगुल्मोक्तदोषद्वयदोषत्रयक्रिया मेलयित्वा तत्क्रमेण काय्यैत्यथेः । तेन “सन्निपातोद्भवे गुल्मे त्रिदोषघ्नो शरलोहादिभिरित्यनेन रुक्षदाहं दर्शयति । दाहश्च गुल्मदेशे एव
'कर्त्तव्येति दर्शयति ।
कर्त्तव्यः ॥ ४४ - ४६ ॥
चक्रपाणिः - दाहक्षारयोः पराधिकारत्वेन परबलस्याभिप्र यत्वम् तेन तत्परेणैव दाहक्षारयोगमाह - दाह हत्यादि । क्षारतम्यस्याष्टाङ्गवेदपृथगभिधानाच्छल्यतन्त्रमेवानु शस्त्रक्षारविधायकं क्षारतन्त्रमुच्यते । व्यामिश्र दोष इति वातपित्ताद्यनुबन्धजो व्यामिश्रः । सम्प्रति सिद्धान् योगानाहसिद्धानिति । वक्ष्यमाणयोगस्तुतिः शिष्यप्रवर्त्तिका ॥ ४७ - ४९ ॥