________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५७६ चरक-संहिता।
गुल्मचिकित्सितम् दोषप्रकृतिगुल्मन्तु ® योगं बद्धा कफोल्वणे । बलदोषप्रमाणज्ञः क्षारं गुल्मे प्रयोजयेत् ॥ एकान्तरं द्वान्तरं वा त्राहं विश्राम्य वा पुनः । शरीरबलदोषाणां वृद्धिक्षपणकोविदः॥ . श्लेष्माणं मधुरं स्निग्धं मांसक्षीरघृताशिनः। छित्त्वा च्छित्त्वाशयात् क्षारः क्षारत्वात् क्षारयत्यधः॥४४॥ मन्देऽग्नावरुचौ सात्म्ये मदो सस्नेहमश्नताम् । प्रयोज्याश्चामशुद्धार्थमरिष्टाः कफगुल्मिनाम् ॥ ४५ ॥ लकनोल्लेखनस्वेदैः सर्पिःपानविरेचनैः ।
वस्तिभिर्गुडिकाचूर्ण-क्षारारिष्टगणैरपि ॥ - गङ्गाधरम्-दोषत्यादि। बलदोषप्रमाणशो भिषक बलप्रमाणं दोषपरिमाणश्च जानन् भिषक दोषं प्रकृति गुल्मञ्च योगश्च बुद्धा दोषबलं प्रकृति गुल्मबलं, योगस्य क्षारयोगो यो योज्यस्तस्य वीर्य बुद्धा गुल्मे उक्तरूपे क्षारं प्रयोजयेत् । केन प्रकारेण क्षारं योजयेदित्यत आह-एकान्तरमित्यादि । शरीरादीनां. वृद्धः क्षपणस्य हासस्य च कोविदः विद्वान् क्षारं सेवमानस्य 'मांसक्षीरघृताशिनो हि कफगुल्मे मधुरं स्निग्धं हि श्लेष्माणं क्षारत्वात् क्षार
आशयात् तत्कफस्थानात् विच्छेदिखात् क्षारयेत् । क्षारो हि रुक्षोष्णः स्निग्धमधुरविपीतः॥४४॥ ... गङ्गाधरः-मन्देऽनावित्यादि। तत्र यदि मन्दाग्निररुचिश्व वत्तते, मयश्च सात्म्यं तस्य वत्तेते, तदा सस्नेहं सघृतादिस्नेहमश्नतां घृतादिस्नेहसहितानाशनस्यारिष्टाश्च शुद्धार्थ प्रयोज्याः॥४५॥ गङ्गाधरः-लङ्घनेत्यादि। एवमुपक्रान्ते लङ्घनादिभिररिष्टगणान्तर्यस्य
चक्रपाणिः-क्षारस्य महात्ययत्वन दोषादिज्ञानपूर्विकामन्तरान्तरप्रवृत्तिमाह-दोषत्यादि । तत्र क्षारानुगुणे दोषः कफः, प्रकृतिः श्लैष्मिकी, गुल्मश्च स्थिरः, ऋतुर्हमन्तः शिशिरो वा। एकान्तरमित्यादि। दोषादिषु क्षारानुगुणेष्वेकान्तरं विश्राम्य स्नेहादिगुणेषु वन्तरं विश्राम्य गुणेषु ब्राहं विश्राम्य । 'शरीरबलदोषाणां वृद्धिक्षपणकोविदः' इति शरीरस्य बलस्य दोषस्य च क्षयवृदरोः -- पण्डितः। मांसक्षीरघृताशिन इत्यनेन मांसादिभोजनेन क्षारयोगे शरीरबलरक्षा
* "गुल्मर्त्त" इति चक्रः।
For Private and Personal Use Only