________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५७२
चरक संहिता |
[ गुल्म चिकित्सितम्
1
निपीड़ितोन्नतै स्तब्धे सुप्ते तत्पार्श्वपीडनात् । तत्रैव पिण्डिते शूले सम्पक्वं गुल्ममादिशेत् ॥ तत्र धान्वन्तरीयाणामधिकारः क्रियाविधौ । वैद्यानां कृतयोग्यानां व्यधशोधन रोपणे ॥ ३३ ॥ निपीड़ितः समुन्नतो भवति स्तब्धच । सुप्ते सति यत्पार्श्वन शेते तत्पाश्वपीड़नात् तत्रैव पार्श्वे पिण्डितो भवति शूलच यदि भवति, तथाविधे गुल्मे सति तं गुल्मं सम्पकमादिशेत् । ननु सुश्रुते गुल्मो न पच्यते विद्रधिस्तु पच्यते इति दृश्यते तद् यथा निदानस्थाने विद्रधिनिदाने । - “विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः । तुल्यदोषसमुत्थानाद विद्रवेगल्मकस्य च । कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च । गुल्माकाराः स्वयं दोपा विद्रधिर्मासशोणिते । विवरानुगतो ग्रन्थिरप्सु बुदको यथा । एवंप्रकारो गुल्मस्तु तस्मात् पार्क न गच्छति । मांसशोणितबाहुल्यात् पाकं गच्छति विद्रधिः । मांसशोणितहीनत्वाद् गुल्मः पार्क न गच्छति । गुल्मस्तिष्ठति दोषे स्वे विद्रधिमोंसशोणिते । विद्रधिः पच्यते तस्माद् गुल्मश्वापि न पच्यते ।” इति । तथा गुल्म चिकित्सितेऽपि गुल्मवत्त्वाद् विशालवाद् गम इत्यभिधीयते । स यस्मादात्मनि चयं गच्छत्यान्सव बुद्वदः । अन्तः सरति यस्माच्च न पाकमुपयात्यतः । इति कस्मादत्र गुल्मपाकवचनं न विरुध्यते इति चेत् न, यो हि गुल्मो गूढ़मांसोत्तराश्रयो न चान्तः स्रोतोविवरेअनुसरति निश्चल एवं वर्त्तते स यदि विरेचनादिक्रियया नोपक्रम्यते तदा रक्तपित्तयोरतिवृद्धत्वात् पाकमेति । य पुननं गूढ़मांसोत्तराश्रयो भवति स्वे दोषे तिष्ठति सरति चान्तः स्रोतोविवरेऽप्स्विव बुद्बुदवत् देहसंलग्नत्वाभावेन नायं पाकमेति, इत्यभिप्रायेणाचाय्यद्वयवचनमविरुद्धं बोध्यम् । ननु सुश्रुतस्य शल्याङ्गन्यनतापत्तिगु दृमांसोत्तराश्रयो हि नोक्त इति चोभयोस्तुल्यदोषसमुत्थानादन्तविधिरेव सोऽभिधीयते गुल्मवच्चिकित्सा च तुल्या नातो वस्तुतो हानिरिति । अथ पक गुल्मे क्रियाविधो येषां भिषजामधिकारः श्रेष्ठः त्वन्ये इति दाहादिष्वन्येष्वित्यर्थः । वह्निस्तुङ्ग इति वाह्यत उन्नते । समुन्नते इति समत्वेनोन न निम्नोच्चविभागेन । निपीड़ितानन्तरमुन्नते निपीड़ितोन्नते । पीडनात् स्तब्धे इति वर्तुले । सुप्ते इति मन्दवेदने इत्यर्थः । धान्वन्तरीयाणामिति धन्वन्तरितन्त्राध्यायिनां शल्यविदामित्यर्थः। कृताः शस्त्रकर्म्मणि योगा यैस्ते कृतयोगाः । गुल्मस्य च पाकः सुश्रुते निषिद्धः "स यस्मात्
5
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only