________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
थम अध्यायः ]
चिकित्सितस्थानम् ।
अन्तर्भागस्य चाप्येतत् पच्यमानस्य लक्षणम् । हृत्कोड़शूनतान्तःस्थे वहिःस्थे पार्श्वनिर्गतिः ॥ ३४ ॥ पक्कः स्रोतांसि संक्लिय वहत्यूर्द्ध मधोऽपि च । स्वयंप्रवृत्तं तं दोषमुपेक्षेत हिताशनैः ॥ दशाहं द्वादशाहं वा रक्षन् भिषगुपद्रवान् । तत ऊर्द्ध्वं हितं पानं सर्पिषः सविशोधनम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
२५७३
तानाह - तत्रेत्यादि । धान्वन्तरीयाणां धन्वन्तरिवंश्यानां वैद्यानां कृतयोग्यानाम् अभ्यासेन शस्त्रकर्मादिषु कृता योग्यता समर्थता यैस्तेषां यथा अधिकारः न तथा भारद्वाजीयानां मुनीनामकृतयोग्यानां भिषजामधिकारः ॥ ३३ ॥
गङ्गाधरः --- लक्षणान्तरमध्याह - पच्यमानस्यास्य अन्तर्भागस्य अन्तगतस्य पच्यमानस्य गुल्मस्य एतदपि लक्षणम् । तद् यथा --- अन्तःस्थे गुल्मे पच्यमाने हृत्क्रोशुनता हृदयोदरस्फीतता, वहिःस्थे तु गुल्मे पार्श्वनिर्गतिः पार्श्वतो निर्गमः स्फीतरूपेण निर्गच्छति ॥ ३४ ॥
गङ्गाधरः – पक्कः सन् गुल्मः स्रोतांसि संक्लिय ऊद्ध मधोऽपि वहति पूयमिति शेषः । यदि पक गुल्मे दोषः पूयरूपः स्वयं प्रवर्त्तते, तदा स्वयंप्रवृत्तं तं दोषं हिताशनं दशाहं द्वादशाहं वा पूयस्रावावसानप्रायं यावत् अन्यान् उपद्रवान रक्षन् यथान्ये तूपद्रवा न भवन्ति तथा सन् उपेक्षेत न रोपणार्थं भेषजं दद्यात् । ततो निःशेषपूयस्त्रावायं दृष्ट्वा ऊर्द्ध सर्पिःपानं पूयशोधनञ्च भेषजं हितम् ।
For Private and Personal Use Only
आत्मनि चयं गच्छत्यस्विव बुद्बुदः । अन्तः सरति यस्माच्च न पाकमुपयात्यतः” इति । तथापीह कृतवास्तुपरिग्रहस्य गुल्मस्य पाक उच्यते । यस्तु अकृतवास्तुपरिग्रहः स न पच्यत इति इहापि यस्वकृतवास्तुपरिग्रहतया पच्यत इति उच्यते विद्रधित्वेन पाको जायत अनुगतम् । इति संज्ञामात्रेण विसंवादः | अन्तर्भागस्येति कोष्ठमध्यस्थितस्य । यद्यपि सर्व एव गुल्मः कोष्ठस्थस्तथापीह वहिरुन्नतश्चितो न भवति । स इह तत्स्थोऽभिप्र ेतः । हृत्को शूनतान्तःस्थ अन्तःस्थपाके हृत्को स्य शूनता भवति । वहिःस्थे पाश्र्वनिर्गतिरिति पाइर्वनिर्गतिर्गुल्म एव दृश्यते । केचित् तु श्लोकमेनं न पठन्ति । व्रजत्यूद्ध मिति सशब्देनान्तःस्थेनाभिप्रतः । उपेक्षेत हिताशनैरिति हिताशनस्तिष्ठेत् न किञ्चित् भेषजं कुर्य्यात् । रक्षन् उपद्रवान् इत्युपद्रवेभ्यो
३२३