SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4म अध्यायः] चिकित्सितस्थानम् । २५७१ हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः। समाश्वस्तं सशेषार्ति सर्पिरभ्यासयेत् पुनः ॥ २६ ॥ रक्तपित्तातिवृद्धत्वात् क्रियामनुपलभ्य च। यदि गुल्मो विदहोत शस्त्रं तत्र भिषगजितम् ॥३०॥ गुरुः कठिनसंस्थानो गूढमांसोत्तराश्रयः छ । अविवर्णः स्थिरः स्निग्धो ह्यपक्को गुल्म उच्यते ॥३१॥ दाहशूलार्तिसंक्षोभ-स्वप्ननाशारुचिज्वरैः। विदह्यमानं जानीयाद् गुल्मं तमुपनाहयेत् ॥ ३२॥ विदाहलक्षणे गुल्मे + वहिस्त्वङ्ग समुन्नते। श्यावे सरक्तपर्यन्तै संस्पर्शे वस्तिसन्निभे॥ गङ्गाधरः-ततः किं कार्यमित्यत आह-हृतदोषमित्यादि। दोषनिहरणेन परिम्लानं क्षीणकान्त्यादिकं पित्तगुल्मिनं जाङ्गलैर्मा सरसस्तर्पितं तृप्तीकृतं सशेषार्त्ति समाश्वस्तं सम्यगाश्वासेनाश्वस्तीकृतं पुनः सपिरभ्यासयेत् ॥२९ ।। - गङ्गाधरः-यदि चैवं क्रियां वैद्यो नोपलभते तदा रक्तपित्तयोरतिद्धसाच्च गुल्मः पित्तगुल्मो यदि विदह्य त पच्येत तत्र पके पित्तगुल्मे शस्त्र तस्य शस्त्रेण दारणं भिषगजितम् ॥३०॥ 'गङ्गाधरः-ननु को गुल्मः पकः को न पक इति कथं विज्ञायते इत्यत आमपकलक्षणमाह-गुरुरित्यादि। गुल्मस्याकारः कठिनः गूढमांसमुत्तरं प्रधानमाश्रयो यस्य स तथा। अविवों वहिःप्रदेशे गात्रसवर्णः । स्निग्धश्चिकणः॥३॥ गङ्गाधरः-दाहेत्यादिना पच्यमानलक्षणम्। अस्यामवस्थायां पाकार्थ पाचकद्रव्येस्तं गुल्ममुपनाहयेत् । संक्षोभेति गुल्मप्रदेशस्य निम्नभावेन विस्तारता ॥३२॥ गङ्गाधरः-विदाहेत्यादिना पक्कलक्षणम्। विदाहलक्षणे दाहशुलादिमति गुल्मे वहिर्वाह्यतस्त्वङ्गे समुन्नते संस्पर्शे कृते वस्तिर्जलपूर्णदृतिस्तत्तुल्ये। हृतदोषमिति। शोणितावसेकेन हृतदोषम् । परिम्लानमिति क्षीणक्रियम् । क्रियामिति शोणितात. सेक्ररूपां क्रियाम् । विदह्यत पच्येत। गुरुः कठिनेत्यादिना अपक्कपच्यमानपक्कगुल्मलक्षणमाह। गूदमांसश्चासौ आन्तराश्रयश्चेति गूढमांसांतराश्रय इति। स्थिर इति उन्नतः ॥ २२-३१ ॥ चक्रपाणिः-तमुपनाहयेदिति उष्णद्व्यव्यक्तेन लेपं पाचनार्थं दद्यादित्यर्थः। विदाहलक्षण ... गूढमांसान्तराश्रयः इति पाठान्तरम् । + त्वन्ये इति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy