________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः ]
२५६६
चिकित्सितस्थानम् । यथोल्पणश्च दोषस्य तत्र कार्य भिषगजितम् । आदावन्ते च मध्ये च मारुतं परिरक्षता॥ २१ ॥ वातगुल्मे कफो वृद्धो हत्वाग्निमरुचिं यदि। हृल्लासं गौरवं तन्द्रां जनयेदुल्लिखेत् तु तम् ॥ २२ ॥ शूलानाहविबन्धेषु गुल्मे वातकफोल्वणे। वत्तिं चूर्णानि गुड़िकाः कफवातहरा हिताः ॥ २३॥ पित्तं वा यदि संवृद्धं सत्तारं वातगुल्मिनः । कुर्य्याद विरेच्यः स भवेत् सस्नेहैरानुलोमिकैः ॥ २४ ॥
गुल्मो यद्यनिलादीनां कृते सम्यभिषजिते। -- न प्रशाम्यति रक्तरय सोऽवसेकात् प्रशाम्यति ॥ २५ ॥
अथवा तस्य पित्तस्य शोणितम्य वा चिकित्सिते क्रियमाणे यदि पित्तकफौ कुप्यतस्तदा यथोल्वणस्य दोषस्य उल्वणं दोषमनतिक्रम्य तत्र वातगुल्मे भिषगजितं चिकित्सितं काय्र्यम्, किंवादौ च मध्ये चान्ते च सर्व्वदैव मारुतं रक्षता भिषजा न तु कदाचिदपि मारुतं क्षपयता। अथ यदि वातगुल्मे कफो वृद्धो भूखाग्निं हवा अरुचिहल्लासादीन् जनयेत् तदा तं गुल्मिनमुल्लिखेत वमनन कर्फ निहरेत् । वर्ति फलवत्तिं, चर्णगुड़िकाश्च वक्ष्यन्ते । अथ यदि वातगुल्मे पित्तं संवृद्धं भूखा सन्तापं ज्वरदाहादिकं कुर्यात् तदा सस्नेहैरानुलोमिकै रेचनिकेविरेच्यः स्यात् । एवं सम्यक कृतेऽनिलादीनां 'भषगजिते यो गुल्मो न प्रशाम्यति स वातगुल्मो रक्तस्यावसेकात् सिराव्यधेन रक्तमोक्षात् प्रशाम्यति ॥१९–२५॥
वातो जितप्रायो न भवति तथा वातचिकित्सा कार्या। यथोल्वणस्येति वातचिकित्सयोल्वणी दोषो भवति कफादिः तस्य चिकित्सा कर्तव्या। तस्यामपि चिकित्सायां वातवृद्धिर्यथा न भवति तथा कर्तव्यमिति दर्शयन्नाह-आदावित्यादि ॥ १७-२१॥
चक्रपाणिः-गुल्मे यद्यपि वमनं निषिद्धं तथाप्यवस्थायां वमनं तदपवादरूपं दर्शयन्नाहवातगुल्म इत्यादि । वर्त्तय इति फलवर्तयः। आनुलोमिकैरितिवचनेन तीव्रविरेचनं वातकोपनं निषेधयति। रक्तस्रावणे गुल्मप्रदेशे एव शृङ्गादिना रक्तग्रहणं यकृत्साधारणत्वाद् गुल्मस्य
For Private and Personal Use Only