SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६८ चरक-संहिता। [गुल्मचिकित्सितम् स्रोतसां माईवं कृत्वा जित्वा मारुतमुल्वणम् । भित्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति ॥ १८ ॥ स्नेहपानं हितं गुल्मे विशेषेणोईनाभिजे। पक्काशयगते वस्तिरुभयं जठराश्रये ॥ १६ ॥ दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः। वृहणान्यन्नानानि स्निग्धोष्णानि प्रयोजयेत् ॥ पुनःपुनः स्नेहपानं निरूहाः सानुवासनाः। प्रयोज्या वातगुल्मेषु कफपित्तानुरक्षिणा ॥ २० ॥ कफवाते जितप्राये पित्तं शोणितमेव च। यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते॥ गुल्मिनः स्वेदो भिवना गुल्म शान्तये कर्तव्यः। कथं स्वेदः शक्नोति तदाहस्रोतसामित्यादि। विबन्धं पित्तकफाभ्यां यो विवन्धस्तम् ॥१८॥ गङ्गाधरः-ननु भोजनादिरूपैः स्नेहः सनिव वातजान् गुल्मानुपाचरेत् किं न वेत्यत आह-स्नेहपानमित्यादि। ऊद्ध नाभिजे नाभेरूद्ध हृदि वा पाश्वयोवो जाते वातगुल्मे विशेषण स्नहपानं हितम् । पकाशयगते नाभेरधोजाते वस्ताविति यावत् वातगुल्मे वस्तिः सानुवासनो निरूहः। उभयं जठराश्रये नाभिजे चामाशयगते च भवति नाभिजः, तत्र स्नेहपानं वस्तिश्चेत्युभयं हितम् । ततो दीप्तऽग्नौ सति मूत्रवच्चेसोविबन्धे च सति वातिके हणान्नादीनि योजयेत्। न केवलं हणान्नादीनि योजयेत्, उक्तरूपेण पुनः स्नेहपानसानुवासननिरूहादयो योज्याः। तहि कफपित्तानुबन्धे तयोरविरोधेन निरनुबन्धे कफपित्ते अनुरक्षणं क शीलेन भिषजा न तु तयोः क्षयेण। यदा कफवातौ जितमायो प्रायेण जितौ भवतस्तदा पित्तं शोणितञ्चैवं यदि कुप्यति स्नेहोपयोगानाह-भोजनेत्यादि। विशेषेणेति वचनेन न सर्वं सर्वत। विशेषतस्तु स्नेहपानं नाभेरूद्ध जाते गुल्मे। पक्वाशयगत इति पक्वाशयसन्धिपार्श्वगते । बस्तिरिति निरूहीऽनुवासनञ्च । जठराश्रय इति नाभिगते नाभिपार्श्वगतेऽपि। चोभयमपि स्नेहवस्ती । वातगुल्मेति वचनादवातप्रधानेषु गुल्मेष्वपि यथोक्तं कर्त्तव्यं दर्शयति। उक्तं हि गुल्मिनामनिलशान्तिरुपायरित्यादि। कफपित्तानुरक्षिणेति तथा स्नेहः कर्तव्यो यथा कफपित्ते न वदेते। वातचिकित्सया वृद्धकफपित्तरक्तचिकित्सामाह-कफवातेत्यादि। जितप्राय इति वचनात् +पादितौ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy