________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
चिकित्सितस्थानम् । २५६७ क्रियाक्रममतः सिद्धं गुल्मिनां गुल्मनाशनम् । प्रवक्ष्याम्यत ऊर्द्धश्च योगान् गुल्मनिवर्हणान् ॥ १७॥ रुक्षव्यायामजं गुल्म वाति तीव्रवेदनम् । बद्धविण्मारुतं स्नेहैरादितः समुपाचरेत् ॥ भोजनाभ्यञ्जनैः पाननिरूहैः सानुवासनैः।
स्निग्धस्य भिषजा स्वेदः कर्त्तव्यो गुल्मशान्तये ॥ स्त्रीभव एव स्त्रीरक्तभव एव । रौधिरो न खन्यरक्तभवो रौधिरः। स्त्रिया रक्तभवो ऽभ्युपैतीत्युक्तेः स्त्रीशब्देन रक्तस्य रजःसंज्ञकत्वं ख्यापितं द्वितीयधातुरक्तस्य व्यावत्तिश्च कृता। यस्तु स्त्रीशब्देनातिद्धबालानां व्यावृत्तिं व्याख्यातवान् तन्न युक्तं तयोरात्तेवासम्भवात्। एवं भेदेऽपि गर्भावगुल्मयोदेशमे मासे व्यतीतेऽयमात्र्तवगुल्मश्चिकित्स्यः सुखसाध्यखात् । अाग दशममासादसुखसाध्यवाच । उक्तं हि रक्तगुल्मे पुराणत्वं सुखसाध्यखलक्षणमिति न तु गर्भाशङ्कया, दशममासादूद्ध मपि प्रसवकालवचनात्। नवमदशमैकादशद्वादशमासेषु प्रसूयतेऽत ऊद्ध वैकारिक इति सुश्रुतवचनाच । सर्वमन्यत् साधासाध्यादिकं निदानस्थाने प्रोक्तम् ॥१६॥ __गङ्गाधरः-इति गुल्मनिदानमुक्त्वा चिकित्सितमाह-क्रियाक्रममित्यादि। अत ऊद्ध गुल्मिनां गुल्मनाशनं क्रियाक्रमं प्रवक्ष्यामि। अतः क्रियाक्रमादूर्द्ध योगान् प्रवक्ष्यामि। गुल्मनाशनमित्युक्तेऽपि पुनगुल्मिनामिति वचनं रोगान्तरोपद्रवरूपस्य च गुल्मस्य नायं क्रियाक्रमस्तस्य च तत्तत्प्रधानरोगीयः क्रियाक्रमो गुल्माविरोधेन काय्ये इति ख्यापनार्थम्। योगाश्च सव्वत्रैव गुल्मे यथादोषमुक्ता इति ख्यापनार्थ पुनगल्मनिवहणानित्युक्तम् ॥१७॥
गङ्गाधरः-रुक्षेत्यादि। रुक्षनं व्यायामजं वा वातिकं स्नेह यथायोग्यं घृतादिभिः स्नेहकर्मभिः भोजनादारादितः प्रथमतः समुपाचरेत्। स्नेहक्रियानन्तरं यत् कर्तव्यं तदाह-स्निग्धस्येत्यादि। सम्यस्निग्धस्य
हि-पुष्टो यदा वर्षगणैरपि स्यात् तया संपिण्डितस्य गर्भलक्षणाविरुद्धलक्षणयुक्तम् । तेन दशममासादोगपि शोणितगुल्मावधारणं भवत्येव। तस्मात् पूर्वोक्तमेव साधु ॥ १४-१६॥
चक्रपाणिः-अत ऊर्द्ध मिति क्रियाक्रमाभिधानानुत्तरम् । स्नेहै रिति चतुर्भिरपि स्नेहः।
For Private and Personal Use Only