SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६६ चरक-संहिता। [गुल्मचिकित्सितम् महारुजं दाहपरीतमश्मवद्-घनोन्नतं शीघ्रविदाहदारणम् । मनःशरीराग्निबलापहारिणं त्रिदोषजं गुल्ममसाध्यमादिशेत् ॥१४॥ तावनाहारतया भयेन विरुक्षणैवेगविनिग्रहैश्च ।। संस्तम्भनोल्लेखनयोनिदोषैर्गुल्मः स्त्रिया रक्तभवोऽभ्युपैति ॥१५॥ यः स्पन्दते पिण्डित एव नाङ्गैश्चिरात् सशूलः समगर्भलिङ्गः । स रौधिरः स्त्रीभव एव गुल्मोमासे व्यतीते दशमे चिकित्स्यः॥१६ वातकफपित्तकफजान गुल्मानादिशेत् । कथमित्यत आह-औषधकल्पनार्थमिति। दोषानुबन्ध्यवानुबन्धखापेक्षो हि भेषजकल्पनाविधिरिति ॥१३॥ गङ्गाधरः-सन्निपातगुल्मलिङ्गमाह-महारुजमित्यादि। अश्मवत् प्रस्तरखण्डवत् घनश्चोन्नतश्च तम्। शीघ्रविदाहदारणमिति शीघ्र पच्यते शीघ्रश्च विदीय्यते। विदाहो विशेषेण क्रियाविधौ व्याख्यास्यते। असाध्यसकारणं निदाने व्याख्यातम् ॥१४॥ गङ्गाधरः-रक्तगुल्महेतुमाह--ऋतावित्यादि। ऋताविति स्त्रीणां रजसि मासान्ते प्रवर्त्तमानेऽनाहारेण भयेन च विरुक्षणैराहारविहारैः संस्तम्भनैश्चाहारविहारैरुल्लेखनैश्च वमनकरैश्च योनिदोषैर्वक्ष्यमाणैरेभिहेतु भिर्निदानस्थाने गुल्मनिदाने चोक्तैहेतु भिश्च स्त्रिया रक्तभवो गुल्मः आर्त्तवजो गुल्मोऽभ्युपैति । न तु द्वितीयधातुयो रक्तनामा तद्भवो गुल्मो भवति ॥१५॥ गङ्गाधरः- अस्य चिह्नमाह-यः स्पन्दत इत्यादि। यो गुल्मः पिण्डितः पिण्डाकार एव स्पन्दते न चाङ्गः करचरणादिभिः। चिराच यः सशूलः स्पन्दते न तु हठात् वा निःशुलो वा। गर्भस्तु चरणकराद्यङ्गैरचिरात् निःशूल: स्पन्दते इति भेदै सति समगर्भलिङ्गो निदाने व्याख्यातः। स रोधिरो गुल्मः ... चक्रपाणिः-महारुजमित्यादिना सन्निपातजलक्षणान्याह- केचिदेतलक्षणव्यतिरिक्तलक्षणस्तु यः प्रत्येकदोषजोक्तसंसर्गमावलक्षणः प्रकृतिसमसमवायसन्निपातजन्यः स साध्य एव गुल्मो वदन्ति । ऋतावित्यादिना शोणितगुल्ममाह-ऋताविति पुष्पदर्शनकाले। स्त्रियमित्यनेन कुमारीमतिवृद्धाञ्च निषेधयति । पिण्डित एवेति गर्भरत्वङ्ग स्पन्दते। समगर्भलिङ्गः स्तनपीनत्वादिसमानं गर्भलिङ्ग भवति। स्त्रीभव एवेति पुरुषस्य गुल्मोत्पत्तिं निषेधयति । मासे व्यतीते दशमे चिकित्स्य इति प्रभावाद्दशमासातिक्रम एवास्य सुखा चिकित्सा भवति । अकि चिकित्सायान्तु शोणितातिनु तिगर्भाशयोपघातादि स्याद्। यदुच्यते गर्भसमानलिङ्गत्वेनास्य दशममासादूई रुधिरगुल्मावधारणं भवति तेनार्वाचिकित्सास नोक्ता। अत्र दशमासातिक्रमेणापि गर्भावस्थानदर्शनात् । उक्त For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy